Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 19
________________ जिनदत्तचरित्रे । ततस्तस्य सकामस्य पतिता पादपद्मयोः । दृष्टिम॑ङ्गीव संसक्ता स्पन्दनेऽपि पराङ्मुखी॥ १९ ॥ निधानकलशेनेव नितम्बेन मनोभुवः । कटीतटं समाकृष्टा संप्राप्ता क्रमयोगतः ॥ २० ॥ लावण्यनीरसम्पूर्णे नाभिकुण्डे ममज्ज सा। मदनानलसन्तापपीडितेव ततश्चिरम् ॥ २१ ॥ ताजहार ततस्तस्याः रोमराजिरनुत्तरा। रूपातिशयतो न्यस्ता प्रशस्तिरिव शंभुना ॥ २२ ॥ आचक्राम प्रयासेन प्रस्खलन्ती मुहुर्मुहुः।। मध्यमस्याः कृशोद-स्त्रिबलीभङ्गबन्धुरम् ॥ २३ ॥ स्तनान्तरे ततस्तस्याः सा लीना समजायत । ययौ यथा समस्तांगसंमोहं मुग्धमानसः ॥२४॥ आललंबे मनोहारिहारावलिमसौ शनैः। कण्ठं हि यत्नतः प्राप रेखात्रितयसुन्दरम् ॥ २५ ॥ आललंबेव ततस्तस्याः सा बाहुलतिका क्रमात् । समस्तभुवनभ्रान्तश्रान्तानंगमृगाश्रयम् ॥ २६ ॥ रति कामपि सा लेभे लावण्यातिशयान्विते । मुखेन्दौ मदनोमिदाहशान्त्यार्थनी यथा ॥ २७ ॥ केशपाशे पुनस्तस्याः कामपाश इवापरे। बद्धी मृगीव सात्यन्तं गन्तुमन्यत्र नाशकत् ॥२८॥ १ कामस्य । २ मजतिस्म । ३ निहिता। ४ महादेवेन । ५ सुन्दरम् । ६ विशेषः । ७ न समर्थाऽभूत् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102