Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 22
________________ द्वितीयः सर्गः। १७ जलार्द्रश्चन्दनञ्चन्द्रः कर्पूरः शिशिरं पयः। ज्वलत्कामानलस्यास्य संजाता घृतविप्लुषः ॥ ४९ ॥ वरं मरणमेवास्तु मा वियोगः प्रियैः सह । समाप्यन्ते समस्तानि येन दुःखानि सर्वतः ॥ ५० ॥ अदृष्टाऽपि मनोमोहं या ममेत्थं ततान ताम् । पुष्पेषो ! कुरुषे किं न शरसंहतिजर्जराम् ॥ ५१ ॥ इत्यादिकं जजल्पासावसम्बद्धं प्रवन्धतः । एकयाऽपि तया मेने व्याप्तामिव जगत्रयीम् ॥ ५२ ॥ जिगासतस्तदा तस्य पञ्चमेन निवारिताः। हुङ्काराः सन्ततश्वासैः प्रम्लानाधरपल्लवैः ॥ ५३॥ समग्रगुणसम्पूर्ण कर्णशूलकरं परम् । गीतं तेन तदा मेने मनोजज्यौरवोपमम् ॥ ५४ ॥ किञ्च प्रसारयामास भूयोभूयो भुजद्वयम् । आलिङ्गितुमिव व्योम भूमिमाशास्तथैव च ॥ ५५ ॥ मूप्रिलापवैवर्ण्यस्वेदरोमाञ्चकम्पितम्। तस्यासीत्सततं गात्रं सन्निपातज्वरादिव ॥ ५६ ॥ इत्यालोच्य ततस्तस्य सुहृदः स्मरसंभवाम् । दशामावेदयामासुराशुं तार्तीय तत्पराः ॥ ५७ ॥ यावन्मानधनोऽद्यापि न याति दशमीमयम् । दशां कन्तोः कुमारस्य कुरु तावत्समीहितम् ॥ ५८ ॥ १ हे काम । २ गातुमिच्छतः । ३ प्रत्वचा। ४ वारंवारम् । ५ शीघ्रम् । ६ जनकाय। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102