Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 20
________________ द्वितीयः सर्गः । ..................... कान्तिलावण्यसद्रूपसौभाग्यातिशया इमे । प्रतिच्छन्देऽप्यहो यस्याः सा स्वयं ननु कीदृशी ॥ २९ ॥ कदापि नैव सम्पन्नो विकारो मम चेतसः । एतस्या दर्शनाच्चेयमवस्था मम वर्तते ॥ ३०॥ किमिदं पूर्वसम्बन्धप्रेमदुर्ललितं स्फुटम् । येन जाता ममैवेयमासेचनकदर्शना ॥ ३१ ॥ अथवा वापि कस्यापि पूर्वकर्मविपाकतः। झटित्येव मनो यात नूनं तन्मयतामिव ॥ ३२॥ यदीयं भविता तन्वी मूलप्रकृतिवर्जिता। न प्राणधारणोपायं तदा स्वस्य विलोकये ॥ ३३ ॥ नूनं सचेतनैवेयं कापि कामलताऽथवा । चोरमामास नश्चित्तं चन्द्रास्या कथमन्यथा ॥ ३४ ॥ अचेतने यतो रूपं शोभायै किल केवलम् । सम्बन्धेन विना चेत्थं नानुरागविजृम्भितम् ॥ ३५ ॥ भुज्यते यदि संसारे सौख्यं विषयगोचरम् । तदानन्दनिधानेन सार्द्धमेवंविधेन हि ॥ ३६ ॥ यद्यतया समं नैव भुंजे भोगानदारतम् । हिमम्लानाम्बुजेनेव यौवनेनाऽपि किं मम ॥ ३७॥ करे करोति किं चापमस्यां सत्यां मनोभुवः । इयमेव यतो विश्ववशीकरणसन्माणिः ॥ ३८ ॥ १ प्रतिरूपे । २ दशा । ३ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । लिङ उत्तमपुरुषस्यैकवचनम् । ५ निरन्तरम् । ६ धनुः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102