Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 18
________________ द्वितीयः सर्गः। दर्शनादेव याश्चित्तं मोहंयन्ति यतेरपि । स्नानादिविधये तस्य नियुक्तास्ता मृगीदृशः ॥ ९ ॥ पण्योङ्गनाजना यत्र द्रावयन्ति मुखेन्दुभिः । चेतांसि पश्यतामाशु चन्द्रकान्तमणीनिव ॥ १० ॥ इतस्ततः स्थिताः स्फारशंगाराः स्मरजीवितम् । गमयन्ति गताशंकं छेकॉस्तोनैव तं यथा ॥११॥ युग्मम् । विचित्राणि च वस्त्राणि समं माल्यविलेपनैः । विभूषणैश्च यच्छन्ति प्रत्यहं तस्य ते निजाः ॥ १२॥ ताः कथास्तानि गीतानि तानि शास्त्राणि नॅर्म तत् । कुर्वन्ति सुहृदस्तस्य दीप्यते येन मन्मथः ॥१३॥ प्रारभ्यते पुरस्तस्य परं प्रेक्षणकं च तत् । रागसागरकल्लोलैः प्लान्यन्ते येन देहिनः ॥ १४ ॥ अथैकदा जगामासौ नित्यमण्डितसंज्ञितम् । वयस्यैः सहितस्तुंगं कोटिकूटं जिनालयम् ॥ १५ ॥ सोपानपदवीं दिव्यां समारुह्य ततः स्थितः। ददर्श क्षणमात्रं स द्वारमण्डपमुत्तमम् ॥ १६ ॥ यावत्तत्र जगत्सारशिल्पिकल्पितरूपके । दत्तदृष्टिरसौ तावदृष्टैका शालभंजिका ॥ १७ ॥ तस्या दर्शनमात्रेण चित्रन्यस्त इव स्थितः । पपौ रूपामृतं चास्याः स्तिमितायतलोचनः ॥ १८ ॥ १ मोहं प्रापयन्ति । २ वेश्यागणाः । ३ कामिनः । ४ लीला क्रीडा । कामः । ६ " पुतली ” इति भाषया ख्याता। ७ निश्चलः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102