Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 16
________________ प्रथमः सर्गः । शस्त्राण्यपि ततस्तेन विज्ञातानि महात्मना । धनुरादीनि यत्नेन समाराध्याशु तद्विदः ॥ ९३ ॥ प्रागल्भ्यं किमपि प्राप व्यवहारविधौ तथा । यथा तातादयस्तस्य जाताः प्रज्ञानुजीविनः ॥ ९४ ॥ तनौ तस्य ततश्चक्रे यौवनेन तथा पदम् । अनङ्गेन यथा स्त्रीषु संमोहायुधमादधौ ॥ ९५ ॥ गगनमिव सितांशो रश्मिभिः सत्तपोभितिरिव नरनाथो न्यायमार्गैरुपेतः । तरुरिव नवपुष्पै राजहंसैः समन्तात् सर इव शुशुभेऽसौ विभ्रमै यौवनस्य ॥ ९६ ॥ सकलसुभगसीमा माननीयों जनानां जिनपतिपदभक्तो भव्यवात्सल्यसक्तः । कुलकमलविवस्वान्कीर्तिवीचीसरस्वाननुपमगुणरा शिश्चन्द्रसौम्यो ननन्द ॥ ९७ ॥ इति श्रभिगवद्गुणभद्राचार्य्याविराचेते जिनदत्तचरित्रे प्रथमः सर्गः ॥ १ १ चातुर्यम् । २ वशीकरणशस्त्रम् । ३ रविः । ४ सागरः । Jain Education International ११ For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102