Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 14
________________ प्रथमः सर्गः । उल्लासं कर्मपि प्राप तेन सा वचसा यतेः । धर्मान्ततोयदोन्मुक्ततोयेनेव लता तदा ॥ ७३ ॥ महाविस्मयसम्पन्ना सा शशंस सभा मुनिम् ! नत्वा ज्ञातयथाभाविवृत्तान्ता साप्यगाद्गृहम् ॥ ७४ ॥ किंवदंत्या तथा चक्रे श्रेष्ठिनोऽपि मनस्तदा । अनल्पकालसम्पन्न सफलाशेषवाञ्छितम् ॥ ७५ ॥ अथ केष्वपि जातेषु वासरेषु बभार सा । गर्भमभ्रलवच्छन्नभानुविम्बमिवेन्द्रदिक् ॥ ७६ ॥ गुणानामिव भारेण गर्भस्थस्य शिशोस्तदा । मन्दं मन्दं महीपीठे विचक्रॉम मृगेक्षणा ॥ ७७ ॥ मलीमसमुखौ जातौ स्तनौ तस्याः समुन्नतौ । तदुत्पादादिव स्वस्य मन्यमानावधःस्थितिम् ॥ ७८ ॥ गर्भस्थयश सेवास्याः पाण्डुताऽजनि गण्डयोः । तेजसेव भ्रुवोश्चक्रे सोत्क्षेपं वचनक्षणे ॥ ७९ ॥ रोमराजिस्तदा तस्यास्तथाऽभूद्बहिरुद्गता । शङ्केऽहं पूर्वसन्तापशिखिधूमशिखैव सा ॥ ८० ॥ जृम्भारम्भो मुखे तस्या विशेषात्समजायत । उष्मणेव तदा तस्य महाभागस्य तेजसाम् ॥ ८१ ॥ पूजोत्सवे जिनेंद्राणां दौहृदं विदधे सुधीः । प्रफुल्लवदनाम्भोजं बन्धुवर्गे च सर्वतः ॥ ८२ ॥ १ अपूर्व । २ आषाढे मेघोन्मुक्तजलेन । ३ लोकवार्तया । ५ विहरतिस्म । ६ दुःखाभिधूमशिखा । Jain Education International For Private & Personal Use Only ४ प्राची www.jainelibrary.orgPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102