Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 15
________________ १० जिनदत्तचरित्रे। पूर्णेऽथ समये साध्वी प्रसूता सुतमुत्तमम् । प्राचीव भास्कराकारं प्रभाते बालभास्करम् ॥ ८३॥ श्रेष्टिना वाञ्छितादुच्चैरधिकं मुदितात्मना। दत्तं वक्रमनालोक्य पुत्रजन्मनिवेदिनम् ॥ ८४ ॥ नृत्तवादित्रसङ्गीतमयमाशु समन्ततः । तदात्या विनवाशु तद्बभूव पुरं तदा ॥ ८५ ॥ स न कोऽपि नरस्तत्र यो नानन्दभरालसः । समभूद्याचको वापि यो न पूर्णमनोरथः ॥ ८६ ॥ जातकर्म कृतं तस्य सोत्सवं सकलं ततः। यथाक्रमं पुनश्चक्रे पूजयित्वा जिनेश्वरान् ॥ ८७ ॥ जिनदत्ताभिधां तस्य बन्धुवृद्धैः समन्वितः। कृतकृत्यमिवात्मानं मेनेऽसौ नैगमाधिपः ॥ ८८ ॥ ववृधे बन्धुपद्मानामानन्दं विदधत्परम् । उपविन्दन् कलाश्चित्रं कोऽपि बालदिवाकरः ॥ ८९ ॥ तत्यजेऽभ्मोजगर्भाभं तनुजातेन शैशवम् । शनैः शनैः सदाचारपुरुषेणैव कैतव॑म् ॥ ९०॥ ततोऽसौ श्रेष्ठिना तेन श्रावकस्य महामतेः । समर्पितः प्रयत्नेन पठनाय यथावधि ॥ ९१ ॥ . वासरैगणितैरेव सर्वशास्त्रमहार्णवम् । स ततार महावृद्धिनावा विनयसङ्गतः ॥९२॥ १ मुखम् । २ वसन्तपुरम् । ३ नाम चक्रे इति क्रियाध्याहारः । ४ वणिजां पतिः श्रेष्ठी । ५ लभमानः । ६ पुत्रेण । ७ कपटं । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102