Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 25
________________ जिनदत्तचरित्रे दत्त्वाऽस्मै कन्यकामेतां कृतकृत्यो भवाम्यहम् । संभाव्यति चकारैषां गौरवं गुणसागरः ॥ ८१ ॥ तातोपान्तगता साऽपि तमद्राक्षीत्पटं सुता। दर्शनादेव चास्याभून्मनोभूशरशल्यिता ॥ ८२ ॥ सान्तमिव तद्रूपं तदा तस्या हृदि ध्रुवम् । यत्तस्य दर्शनात्सापि समभून्निश्चलाऽखिला ॥ ८३॥ सखी बसन्तलेखाऽस्या जग्राहाञ्चलमुत्सुका । अन्तरेऽत्र तया साऽपि हुंकृत्यैव निवारिता ॥ ८४॥ सा ददर्श यथालब्धलक्षं शून्यं जहास च । अस्फुटार्थ जजल्पातस्तातेनाऽज्ञायि तन्मनः ॥ ८५ ॥ आलोच्य बन्धुभिः सार्द्ध कार्यमार्यजनोचितम् । संविभक्ता गतास्तेऽपि सलेखाः श्रेष्ठिना ततः ॥ ८६ ॥ लेखार्थमथ निश्चित्य जिनदत्तपिता स्वयम् । कृत्वा यथोचितां तत्र सामग्री प्राहिणोत्सुतम् ॥ ८७ ॥ प्राप्तः सोऽपि ततश्चम्पामकम्पां रिपुसंहतेः । तर्जयन्तीं ध्वजबातैः पुरन्दरपुरीमिव ॥ ८८॥ तदुद्याने स्थितस्तेन विहितोचितसक्रियः। तत्कालमङ्गलारम्भव्यग्राशेषपरिग्रहः ॥ ८९॥ जातेऽथ समये तत्र समुत्सवशताञ्चिते । संस्नातकल्पितानल्पमाल्याम्बरविभूषणः ॥९॥ गीतनृत्यसमासक्तानन्तसीमन्तिनीजनः। चतुर्विधमहावाद्यबधिरीकृतदिग्मुखः ॥ ९१ ॥ १ ज्ञातम् । २ अप्रेषयत् ३ । इन्द्रनगरीम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102