Book Title: Jindattakhyana Dwaya Author(s): Sumtisuri, Amrutlal Bhojak Publisher: Singhi Jain Shastra Shiksha Pith MumbaiPage 28
________________ जिनदत्तचरित्रगतप्रसङ्गानुक्रमः । मङ्गलम् जिनदत्तपूर्वजन्मवर्णना । सा चेत्थम् - शिवधनेभ्यपत्नी यशोमत्याः शिवदेवाभिधानपुत्रत्वेन जन्म, शिवधनमरणानन्तरं गृहदारिद्र्यम्, ततः शिवदेवसहिताया यशोमत्या दशपुरा - दुज्जयिनीं गत्वा दासित्वकरणम्, वत्सपालननियुक्तस्य शिवदेवस्य बहिस्तपस्वीदर्शनं वन्दनादिपर्युपासना च, कन्याचतुष्कानुमोदनासहितं तपखिने आहारदानम्, कालमेोपार्जित शुभकर्मणः शिवदेवस्य पञ्चत्वम् । जिनदत्तजन्मवर्णना दृष्टपुत्तलिका रूपोत्पन्नानुरागस्य जिनदत्तस्य विमलमतिपरिणयनवर्णना । जिनदत्तद्यूतप्रसक्तिवर्णना । ९,४७ १०,४८ द्यूतमग्नस्य प्रभूतद्रव्यहानेरनन्तरं कोशाध्यक्षनिषेधितद्रव्यादानप्रेषित पुरुषस्य जिनदत्तस्य मानहारुद्वेगः । ११,४९ जिनदत्तोद्वेग निवारणार्थं विमलमतिविचारणा, वसन्तपुरे खपितृगृहे जिनदत्त सहिताया विमलमत्याः प्रस्थानं, तत्रैवावस्थानं च । जिनदत्तविमलमत्योः प्रहेलिकाविनोदः । १,४१ २,४१ ५,४५ ६,४६ १२ १४,४९ द्यूतहारितद्रव्याघिकवित्तोपार्जन चिन्तायुतो जिनदत्तस्य वर्णपरावर्तेन परदेशगमनम्, दधिपुर निवासिनोऽपुत्रस्य दरिद्रसार्थवाहस्य गृहे पुत्रत्वेनावस्थानं च । १६,५१ दरिद्रसार्थवाहसहितस्य जिनदत्तस्य सिंहलद्वीपं प्रति प्रयाणम्, तत्र सपुत्रवृद्धा गृहनिवासश्व १७,५३ सिंहलद्वीपस्वामिपृथ्वीशेखरन्नृपपुत्र्याः श्रीमतीनाम्च्या उदरस्थसर्पमारणोपकारादू जिनदत्तस्योपर्यनुरागः, तयोः पाणिग्रहणं च । अन्तरे जिनदत्तकथिता विजयकुमारकथा । २४,५६ श्रीमतीसहितयोर्जिनदत्त - दरिद्वसार्थवाहयोः सिंहलद्वीपात् प्रतिक्रमणम्, श्रीमत्योपरिसञ्जातानुरागदरिद्रसार्थवाहरचितछद्मेन जिनदत्तस्य मध्यरात्रौ समुद्रान्तराले पातनम् । २६,५७ श्रीमत्याः कौशल्येन शीलरक्षा, चम्पानगरीस्थविमलमल्या सह वसनं च । २७,५८ उदधिपतितस्य जिनदत्तस्य विद्याधराभ्यां समुद्रान्निष्काशनम्, रथनूपुरनाम विद्याधरनगराधिपस्य पुरो नयनम्, तत्कुमार्या अङ्गारवत्याः सहोद्वाहश्च । ३०,६२ श्रीमत्यन्वेषणार्थं जिनदत्तस्याङ्गारवत्याः सार्धं कीलाप्रवासः, मार्गे चम्पायां भार्याद्वयनिरीक्षणात् तत्रैवाङ्गारवतीं छद्मेन त्यक्त्वा वामनकरूपेणावस्थितिः । ३३,६५ मदोन्मत्तराजहस्तिनिग्रहणरञ्जितचम्पानृपाभ्यर्थनानिराकृतवर्णपरावर्त - वामनकत्वस्य जिनदत्तस्य नृपकुमारीरतिसुन्दरीपरिणयनम् । ३५,६७ भार्याचतुष्कसनाहस्य जिनदत्तस्य पितृगृहे गमनम्, तत्रैव वासश्च । ३७,६८ धर्मोपदेशश्रवणम् । दीक्षाग्रहणम् । ३९,७४ " Jain Education International "" " For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122