________________
९०९
४५-४७ ]
एकोनविंशः सर्गः हरन्नलम्बोदरजां स्विदति सद्भयोऽवलम्बोऽयमदूरवर्ती । आत्मंस्त्वमस्मै नमनात्सुपात्रमिष्टश्रियोऽखिन्नमना भवात्र ॥४५॥
हरन्नित्यादि-हे आत्मन् ! वो युष्माकं दरजां भयसम्भवामति पीडां हरन् निवारयन् सर्वान् भयजितान् कुर्वन्, सद्भयः सभ्येभ्योऽवलम्बः समाश्रयः, यमाच्च मृत्योर्दूरवर्तीत्यमरताश्रयो भवति तस्मै नमनान्नमस्कारकरणात् त्वमत्रास्मिन् संसारे न खिन्नमदुःखितं मनो यस्य सोऽखिन्नमना भवत् सन् त्वमिष्टश्रियां वाञ्छितसम्पदानां सुपात्रं सदाश्रयस्थानं भव ॥४५॥ इत्येवमाराध्यचतुष्टयस्य पुनीतपुण्यकपदप्रदृश्यः । योऽसाविदानों जगतां प्रवासी तेनादृता सम्बलसन्निभाशीः ॥४६॥
इत्येवमित्यादि-इत्येवमुपयुक्तरीत्याराध्यानामाराधनयोग्यानां चतुष्टयस्य चतुर्णा समदायस्थ पुनीतं पावनं च तत्पुण्यं प्रशंसायोग्यं चैकमद्वितीयं यत्पदं स्थानं तत्र प्रायो यदा तदेव प्रदृश्यं दर्शनयोग्यं यस्य स तथैवमत्र पदशब्दस्य चरणार्थकतापत्यवसेया मयादिति योऽसाविदानों साम्प्रतं जगतां प्रवासी जगत्त्रयमध्ये वर्तमानो जयकुमारस्तेनानेन तेषामाशीः शुभाशंसनवाक् कि वाशिका सा सम्बलेन मार्गव्ययलक्षणेन सन्निभा सदृशीत्याइता स्वीकृताभूत् ॥४६॥
भवाभियं प्राप्य धियं श्रियंच सतामियन्तं सहकारिणं च । नोति स लेभे चतुरङ्गतानां रुचां स नाथश्चतुरङ्गतानाम् ॥४७॥
भवाभियमित्यादि-स चतुरं विज्ञं गतानां प्राप्तानां रुचां शोभानां नाथः स्वामी भवात्संसारान्नास्ति भीर्यस्य तं भवाभियं लोकविजयिनं जिननाथं, धियमित्यनेन बुद्धरधिष्ठात्री सरस्वती श्रियं च पुरुषार्थचतुष्टयसमर्थिकां लक्ष्मी, सतां सभ्यानां सहकारिणं
अर्थ-हे आत्मन् ! जो तुम्हारी भयसे उत्पन्न पीडाको अतिशय रूपसे हरता है, जो सत्पुरुषोंके लिये अवलम्बन है तथा यम-मृत्युसे दूरवर्ती है, अर्थात् अमरताको प्राप्त है, ऐसे गणेशके लिये नमन करनेसे तूं इस संसारमें इष्टलक्ष्मियोंवाञ्छित सम्पदाओंका सुपात्र हो जा ।।४५।। __ अर्थ-इस प्रकार जो पवित्र पुण्यके अद्वितीय स्थानके समान दिखायी देते थे तथा जो जगत्के मध्य में विद्यमान थे, ऐसे जयकुमारने इस समय आराधना करने योग्य भगवान् वृषभदेव, सरस्वती, लक्ष्मी और गणेश इन चारोंके आशीषआशीर्वादात्मक वचनोंको सम्बल-पाथेयकी तरह स्वीकृत किया ॥४६॥
अर्थ-ज्ञानी जनोंको प्राप्त शोभाओंके स्वामी उन जयकुमारने संसारसे निर्भय जिनेन्द्रदेव, सरस्वती, लक्ष्मी और सत्पुरुषोंके सहकारी गणधरदेव-इन्हें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org