________________
५७-५९ ] सप्तविंशतितमः सर्गः
१२४१ शास्त्राणि शस्त्राणि किलान्तरङ्गनियन्त्रगानीति वदत्यचङ्गाः। कदापि चेदाश्रयतोष्टसिद्धिकराणि तानीह नरेश विद्धि ॥५७॥
शास्त्राणीत्यादि-अचङ्गो निर्विचारो जनः सोऽन्तरङ्गस्य मनसो नियन्त्रणं भवति यस्तानि शास्त्राणि सन्तीति हेतोस्तानि किल शस्त्राणि वदति ततो दूरतर एव तिष्ठति । कदापि श्रयति तानि चेत्तदेहेष्टसिद्धिकराणि यानि जानाति तान्येव धयति किलेति हे नरेश ! त्वं विद्धि जानीहि । 'चङ्गो दक्षेऽथ शोभने' इति विश्वलोचने ।।५७॥ निराश्रयत्वेन स शान्तिजानिः समुत्तरंस्तान्यथ दुःश्रुतानि । ध्यानात्यये श्राम्यति चागमेषु स्वभावसम्भावनयान्वितेषु ।।५८॥
निराश्रयत्वेनेत्यादि-अथ शान्ति या प्रिया यस्य स शान्तिजानिनिनिर्गतः शान्तेराश्रयो येभ्यस्तत्त्वेन यानि प्रसिद्धानि कलहविसंवादादिसम्पादकानि दुःश्रुतानि तानि समुत्तरन् परिहरन् केवलं स्वभावस्यात्मभावस्य सम्भावनाऽनुचिन्ता तयान्वितेषु चागमेषु ध्यानस्यात्मन्येकाग्रत्वस्यात्ययेऽभावे स्वात्मभावनतो मनसः प्रच्यवनकाले श्राम्यति विश्रामं करोति ॥५८॥
देहाय हा कर्मकरायतेऽयं यत्तत्समादानविधावगेयः । विपद्यतेऽतीव विपद्यमानेऽमुषिमन्नहो किन्तु रहो न जाने ॥५९॥
देहायेत्यादि-अयं संसारी जनः स तच्च तच्च समादानं नित्यकर्म देवपूजनादि 'समादानं समीचीनग्रहणे नित्यकर्मणि' इति विश्वलोचने, तस्य विधौ संविधाने गेयेन
अर्थ-हे नरेश ! अचङ्ग-विचारहीन मनुष्य मनका नियन्त्रण करने वाले शास्त्रोंको शस्त्र कहता है-उनसे सदा दूर रहता है। यदि कदाचित् शास्त्रोंका आश्रय लेना भी है तो अपना प्रयोजन सिद्ध करानेवाले शास्त्रों-रागद्वेषवर्धक शास्त्रोंका आश्रय लेता है-उनका पठन-पाठन करता है, ऐसा जानो ॥५७।। ___अर्थ-शान्तिरूप स्त्रीसे सहित मुनि शान्तिका आश्रय न होनेसे कुशास्त्र कहे जानेवाले शास्त्रोंको छोड़ते हुए ध्यानके अभावमें स्वकीय शुद्ध आत्माके अनुचिन्तनसे सहित आगमों-शास्त्रोंमें श्रम करते हैं-उनका स्वाध्याय करते हैं, अर्थात् आत्मध्यानसे उपयोग हटनेपर समीचीन शास्त्रोंका स्वाध्याय करते हैं ।।५८||
अर्थ-यह संसारी प्राणी देवपूजा आदि नित्य कर्मों में कर्तव्यहीन होता हुआ एक शरीरके लिये ही कर्मकर-भृत्यका आचरण करता है-उसोकी संभाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org