________________
जयोदय-महाकाव्यम्
[ १३-१५
कल्पवल्लिदलयोः श्रियं तयोः सद्योजातफलोपलम्भयोः । पाणियुग्ममपि चक्रिणो जयत्तच्छिरो मृदुगिरोऽभ्युदानयत् ॥ १३ ॥
कल्पवल्लीत्यादि - अपि पुनश्चक्रिणो भरतभूपतेः पाणियुग्मं यत्तत् सद्योजातस्य फलस्योपलम्भः सद्भावो ययोस्तयोस्तादृशयोः कल्पवल्लिदलयोः श्रियं जयदुपमामाश्रयत् सद् मृदुगिरः सुकोमलवचनस्य विनम्रतया गद्गदोक्तिमतस्तस्य जयकुमारस्य तद् धरणीगतं शिरो मस्तकमभ्युदानयत् ॥१३॥
९३६
उपलम्भितमित्यथोपकर्तुं हृदयेनाभ्युदयेन नाम भर्तुः । उदय दिवोदयभूभृतस्तटे तच्छशिबिम्बं जयवक्त्रमेकमेतत् ॥ १४॥ उपलम्भितमित्यादि- -अथ पुनरभ्युदयेनोन्नमनेनादारभावेनोपकतु नाम भर्तुः स्वामिनो भरतराजस्य हृदयेन वक्षःस्थलेनेत्युक्तप्रकारेणोपलम्भितं संधारितमेकमेतज्जयस्य वक्त्रं मुखं तदानीमुदयभूभृतस्तटे उदयच्छशिविम्बमिवाभूदित्युपरिष्टात् ||१४|| किलोपलभ्य
हस्तावलम्वनबलेन
त्रागालिलिङ्ग गलतः प्रणतं स सभ्यः । सर्वस्वमूल्यमिति तुल्यतया निजस्य
कुर्याच्छ्रितं लघुमपीह जनः प्रशस्यः ||१५||
?
हस्तावलम्बनेत्यादि --स सभ्यो भरतचक्रोह प्रशस्यो जनः श्रितं शरणमागतं लघु साधारणमपि जनं निजस्यात्मनस्तुल्यतया सदृशभावेन सम्पन्नं कुर्यात् यावृक्स्वयं तादृक् तमपि करोत्येवेति किल मनसि कृत्वा प्रणतं नन्नतामितं तं सर्वस्व मूल्यं जयकुमारं हस्तावलम्बनबलेनोपलभ्य त्रागेव गलतः कण्ठावालिलिङ्ग ॥ १५ ॥
अर्थ -- तत्काल उत्पन्न फलोंके सद्भावसे सहित कल्पलताके दो पत्रोंकी शोभाको जीतने वाले चक्रवर्ती भरतके हस्तयुगलने अत्यन्त मृदुभाषी जयकुमारके भूमिगत शिरको ऊपर उठाया ||१३||
अर्थ - तदनन्तर ऊपर उठाकर उपकार करनेके लिये स्वामी भरतराजके वक्षःस्थल पर लगाया हुआ जयकुमारका वह अद्वितीय मस्तक उदयाचलके तटपर उदित होते हुए चन्द्रबिम्बके समान सुशोभित हो रहा था || १४ ||
अर्थ - इस जगत् में प्रशंसनीय - उत्तम मनुष्य शरणमें आये हुए साधारण मनुष्य को भी स्वयं अपने समान कर लेता है, ऐसा मनमें विचार कर सभा में विद्यमान भरत चक्रवर्तीने सर्वस्व के मूल्यस्वरूप - अत्यन्त प्रिय विनम्र जयकुमारको हस्तावलम्बनके बलसे उठाकर शीघ्र ही गलेसे आलिङ्गित किया । भाव यह है कि पहले भूमिसे उठाकर छातीसे लगाया, पश्चात् गलेसे आलिङ्गन किया ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org