________________
३१-३३] सप्तविंशतितमः सर्गः
१२३१ हन्तोदरायास्ति कृतापराधः पतत्यतत्त्वात् तृणतोऽपि नाऽधः । बन्धूनपि द्वेष्टि कदन्नकोष्टिर्यवेकवेलामपि नाशनेष्टिः ॥३१॥
हन्तेत्यादि-नाऽसौ नरो हन्तेति खेदपूर्वकमुच्यते यत्किलोदरायास्मै जठराय कृतापराधोऽपि पापाचरणपरायणो भवति । तत्त्वं स्वरूपं तदभावात् स्वरूपज्ञानाभावातृणतोऽप्यधः पतति सर्वतोऽपि लघुतामुरीकरोति । यदि चैकवेलामपि चान्नस्य भोजनस्येष्टिनिष्पत्तिर्नास्ति तदा कदन्नकस्याभक्ष्यभक्षणस्येष्टिरिच्छा यस्य स भवन् बन्धूनपि देष्टि तैरपि सह द्वेषं करोति । अनुप्रासालंकारः ॥३१॥ आपक्षमासं वजतोऽपि मन्तुं गुरुनुरुयोगपरोऽपि गन्तुम् । लेश्याविशुद्धि लभते सुबुद्धि वापराध्यत्यपि भक्ष्यशुद्धिम् ॥३२॥
आपक्षमासमित्यादि-पक्षश्च मासश्च पक्षमासौ यावदित्यापक्षमास तथा चापि शब्दावतोऽप्यधिककालपर्यन्तं मन्तुं परमेष्ठिनं व्रजतो भोजनमकृत्वा परमात्मध्यानं कुर्वतो गुरुन् वृषभबाहुबल्यादीन् गन्तुमनुसर्तुमुरुद्योगपरः परमप्रयत्नशील: सुबुद्धिविचारवान् मुनिः सोऽपि शब्दात् सुदीर्घकालमपि भोजनालाभेऽपि भक्ष्यस्य शुद्धि भिक्षासिद्धान्तस्य मर्यादां नैवापराध्यति समुल्लङ्घयति, प्रत्युत लेश्याया विशुद्धिमेव लभते निराकुल एव तिष्ठति । अनुप्रासोऽलंकारः। 'मन्तुः स्यादपराधेऽपि मानवे परमेष्ठिनि' इति विश्वलोचने ॥३२॥ यथासुखं कौतुकिको तु किन्न यदृच्छयान्यासु महीषु खिन्नः । कुशो विशत्येष् करोति हो यदक्लेशयन् वेषमपि स्वकीयम् ॥३३॥ __ यथासुखमित्यादि-कुशः पापात्मा संसारी जनोऽन्यासु महीषु विनोदविहीनासु
अर्थ-उस मनुष्यसे खेदपूर्वक कहा जाता है कि जो इस पेटके लिये अपराध करता है, स्वरूपका ज्ञान न होनेसे जो तृणसे भी नीचे जा पड़ता हैअत्यन्त अनादरको प्राप्त होता है, यदि एक बार भी भोजनका जुगाड़ नहीं होता है तो अभक्ष्यभक्षणकी इच्छा करने लगता है तथा बन्धुजनोंके साथ द्वेष करता है ॥३१॥
अर्थ-एक पक्ष, एक मास अथवा इससे भी अधिक काल तक भोजन न कर परमेष्ठीका ध्यान करने वाले भगवान् वृषभदेव तथा बाहुबली आदिका अनुसरण करनेके लिये प्रयत्नशील विचारवान् मुनि भैक्ष्यशुद्धिका उल्लंघन नहीं करते, किन्तु लेश्याकी विशुद्धिको प्राप्त होते हैं ।।३२।।
अर्थ-कुश-पापी संसारी जीव विनोदरहित भूमियोंमें खिन्न होता हुआ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org