Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ १२ • सटीकजैनतर्कभाषायां ननु योग्यताज्ञानशाब्दबोधयोः कारणकार्यभावेऽपि समानविषयकत्वं दृश्यते एवेति फलस्य स्वपरव्यवसायित्वे प्रमाणस्याऽपि स्वपरव्यवसायित्वं स्यादेवेति प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति हेतूपादानं प्रमाणस्य स्वपरव्यवसायित्वासम्भवप्रतिपत्तयेऽयुक्तमिति चेत् ? न, अन्यत्र भिन्नयोः समानविषयतया कार्यकारणभावे समानविषयकत्वस्य सम्भवेऽपि, प्रकृते य एव प्रमाणस्य स एव यदि फलस्याऽपि विषयः, तदा फलेन यत् प्रकाशयितव्यं तत् प्रमाणेन प्रकाशितमेवेति न तत्प्रकाशनेन फलं किञ्चिदित्यतः प्रमाण-फलयोर्विषयभेदस्याऽवश्यमभ्युपगन्तव्यत्वात् । न च-प्रमाणफलयोविषयभेदः-प्रमाणस्य स्वप्रकाशकत्वेन स्वव्यवसायित्वात्, फलस्य परप्रकाशकत्वेन परव्यवसायित्वादप्युपपद्यते इति 'प्रमाणस्य परव्यवसायित्वं फलस्य च स्वव्यवसायित्व'मित्यत्र विनिगमकं नास्तीति-वाच्यम् । यत:२१. 'घटमहं जानामी'त्याद्यनुव्यवसायस्य 'अयं घट'इत्यादिव्यवसायफलत्वं पादनात्। किञ्च, प्रमाणफलस्वरूपविषयको जैनतर्कसिद्धान्तोऽपि इदानीं यावन्निविवादं स्वपरप्रकाशयोरेव फलत्वं प्रतिपादयन् सर्वत्र दृश्यते इति तं सिद्धान्तमपि प्रस्तुतशङ्काग्रन्थः कथं न बाधेत इति चेत्ः ___ अवधेहि, यद्यपि स्वपरव्यवसितेरेव प्रमाणफलत्वं निर्विवादं जैनतर्कसम्मतम्, तथापि अत्र ग्रन्थकृता विज्ञानवादीयबौद्धपरम्परायां लब्धप्रतिष्ठः स्वमात्रसंवेदनस्य प्रमाणफलत्वसिद्धान्तः, इदानीं यावत् जैनतर्कपरम्परायां अलब्धप्रतिष्ठोऽपि औचित्यं समीक्ष्य सनिवेशितः । तथा च ग्रन्थकर्तुस्तात्पर्यमत्र इत्थं भाति-यद्यपि ज्ञानं स्वं परं चोभयं प्रकाशयति तथापि तदीयं स्वमात्रप्रकाशनं फलकोयै निपतति । स्वमात्रप्रकाशनस्य फलत्वोक्तावपि वस्तुतः ज्ञानात्मकस्वप्रकाशनस्य 'विषयनिरूप्यं हि ज्ञानम्, ज्ञानवित्तिवेद्यो विषयः' [मुक्ता० का० १३६.] इति सिद्धान्तानुसारेण स्वविषयविषयकत्वान्यथानुपपत्त्या परप्रकाशनगर्भितत्वमपि पर्यवस्यति इति परव्यवसितेरादेव लभ्यत्वेन गौरवादेव स्वपरोभयव्यवसितेः साक्षात् फलत्वेनाऽभिधानं ग्रन्थकृता नाऽऽदृतम् । प्रमाणफलयोरभेदपक्षं समाश्रित्य च प्रमाणस्य स्वपरव्यवसायित्वोक्तिः फलस्य च स्वपरव्यवसितित्वोक्तिः सङ्गमिता । ग्रन्थकर्तुरयमभिप्रायः अग्रेतनेन 'ज्ञानाभावनिवृत्तिरुचर्थज्ञातताव्यव्यहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम्' इति ग्रन्थेनाऽपि स्फुटीभवति । १. योग्यताज्ञानं पदार्थानामन्वयं विषयीकरोति । शाब्दबोधविषयोऽपि पदार्थानामन्वय एव । २. एकस्यैव ज्ञानस्यांऽशद्वयं-स्वसंवेदनं च परसंवेदनं च । तत्र स्वव्यवसायित्वस्य फलत्वम्, परव्यवसायित्वस्य च प्रमाणत्वमिति पूर्वपक्षे उक्तम् । तत्र केनचिदाशङ्का प्रदर्श्यते-स्वव्यसायित्वस्य प्रमाणत्वम्, परव्यवसायित्वस्य च फलत्वमिति कथं न स्यात् ? इति । तदाशङ्कापनोदनाय पूर्वपक्षेण युक्तिचतुष्टयं प्रदर्श्यते ।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342