Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 218
________________ सप्तभङ्गी दिकमवक्तव्यत्वोपोद्बलकं बोध्यम् । पञ्चमभङ्गं निरूपयति स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । १८७ चतुर्थभङ्गप्रतिपाद्यस्याऽवक्तव्यत्वस्य प्रथमभङ्गप्रतिपाद्यास्तित्वेन सहैकधर्मिणि बोधनेच्छया, स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः पृथक् कल्पनया, स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः परद्रव्यादिना नास्तित्वलक्षणनिषेधस्य च प्राधान्यतो युगपत्कल्पनया चाऽयं भङ्गः प्रवर्त्तते । अस्य कथञ्चिदस्तित्वादिप्रकारक- कथञ्चिदवक्तव्यत्वप्रकारक - घटाद्येकधर्मिविशेष्यकबोधजनकवाक्यत्वं लक्षणम् । सप्तमभङ्गेऽतिव्याप्तिवारणाय कथञ्चिदस्तित्वादिप्रकारकेत्यस्य पृथक्कथञ्चिदस्तित्वादिविधिमात्रप्रकारकेत्येवंपरता विवक्षणीया । सप्तमभङ्गजन्यबोधे च पृथक्कथञ्चिन्नास्तित्वादिनिषेधः प्रकारो भवतीति तद्वारणम् । एतावतैव सप्तभङ्ग्यात्मकमहावाक्येऽपि नाऽतिव्याप्तिः - तज्जन्यमहावाक्यार्थबोधे पृथक्कथञ्चिन्नास्तित्वादिनिषेधस्याऽपि प्रकारत्वात् । सूक्ष्मविचारणायां च कथञ्चिदस्तित्वसंवलितकथञ्चिदवक्तव्यत्वोक्त्या पञ्चमं धर्मान्तरमेव बोध्यते । तच्चेत्थमेवोल्लिखितुं शक्यते, नाऽन्यथेति तत्प्रतिपादकः ‘स्यादस्त्येव स्यादवक्तव्यमेवे'ति भङ्गः । तथा च तथाविधविलक्षणधर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणं पर्यवस्यतीति । षष्ठः । षष्ठं भङ्गं निरूपयति स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च चतुर्थद्वितीयधर्मसम्मेलनोपस्थापितषष्ठधर्मप्रतिपादकतयाऽयं भङ्गः प्रवर्त्तते । अस्य पृथक्कथञ्चिन्नास्तित्वादिनिषेधमात्रप्रकारक- कथञ्चिदवक्तव्यत्वप्रकारक - घटादिधर्मिविशेष्यकबोधजनकवाक्यत्वं तथाविधविलक्षणधर्ममात्रप्रकारक - घटादिविशेष्यकबोधजनकवाक्यत्वं वा लक्षणम् । अन्यत् सर्वं पञ्चमभङ्गवत्, केवलं विधिकल्पनास्थाने निषेधकल्पना पृथग्भावे प्रविशतीति । सप्तमभङ्गं निरूपयति स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ।

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342