Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 226
________________ नयपरिच्छेदः प्रमाणनयनिक्षेपैरित्यनेन प्रमाणनयनिक्षेपाणां त्रयाणामुद्दिष्टत्वेऽपि प्रथमं प्रमाणस्योद्देशात्, तज्जिज्ञासाया एव प्रथममुत्थितत्वात्, ततः प्रथमं प्रमाणे निरूपिते तज्जिज्ञासारूपप्रतिबन्धकोपशान्तः, तदनन्तरमुद्दिष्टत्वेन निक्षेपनिरूपणतः प्राक् नयजिज्ञासाया एवोल्लासः । ततः प्रमाणनिरूपणानन्तरमवश्यवक्तव्यत्वलक्षणावसरसङ्गत्या नयनिरूपणमित्याशयमाविष्कुर्वन् श्रीमान् यशोविजयोपाध्यायो नयनिरूपणं प्रतिजानीते प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणान्युक्तानीत्यनेन प्रमाणनिरूपणस्य वृत्तत्वकथनेन स्वविषयसिद्धिनिवायाः प्रमाणजिज्ञासाया नयनिरूपणप्रतिबन्धिकाया निवृत्तिरावेदिता । अथ-प्रमाणनिरूपणानन्तरम्, अनेन चाऽवसरसङ्गत्या निरूपणम् । नया इत्यनेन निरूपणविषयस्याऽऽविष्कारः । उच्यन्ते इत्यनेन तद्विषयकप्रतिपत्त्यनुकूलव्यापारलक्षणप्रतिज्ञाऽप्यावेदिता । नयान् लक्षयति प्रमाणपरिच्छिन्नस्याऽनन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणः तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा 'नयाः । नया इति लक्ष्यवचनम्, प्रमाणेत्यादि लक्षणवचनम् । नया इति बहुवचनतो '२यावन्तो वचनवादाः, तावन्तो नया' इति वचनाद् विशेषतो नयानामानन्त्यमिति संसूचनम् । प्रमाणपरिच्छिन्नस्येति । अन्यत्र ३श्रुतप्रमाणपरिच्छिन्नस्येति निर्दिष्टत्वेऽपि, अत्र प्रमाणसामान्याभिधानं स्याद्वादसंस्कारवतः पुंसः तबलात् प्रत्यक्षादिप्रमाणेऽपि स्याद्वादार्थगतिरस्त्येवेति तथाविधप्रत्यक्षादिप्रमाणपरिच्छिन्नत्वमप्यनन्तधर्मात्मकवस्तुन इत्यावेदनाय । अत एव सप्रपञ्चप्रत्यक्षपरोक्षस्वरूपतया प्रमाणनिरूपणमपि सङ्गच्छते, अन्यथा केवलज्ञानसकलादेशात्मकवचनयोरेव प्रमाणतयाऽभिधानं न्याय्यं भवेदिति बोध्यम् । एकदेशग्राहिण इति । प्रधानतयाऽनन्तधर्मात्मकवस्तुनः शरीरसन्निविष्टत्वेनैकदेशस्याऽवयवरूपस्याऽस्तित्वादितत्तद्धर्मस्य ग्राहकाः । प्रधानतयेति पूरणाद् गौणतया तदन्यदेशग्राहिण इत्यपि लभ्यते । अत एव च यावतामेव वस्तुधर्माणां प्रधानतयाऽवगाहकात् प्रमाणादस्य भेदः । १. सर्व वस्त्वनन्तधर्मात्मकतया सङ्कीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनाऽपि तथैव भवितव्यमिति असङ्कीर्णप्रतिनियतधर्मप्रकारकव्यवहारसिद्धये नयानां सामर्थ्यम् । २. "जावइया वयणपहा, तावइया चेव हुँति नयवाया ॥"- सम्मतितर्क (३.४७) । अयमत्राऽभिप्राय: वस्त्वेकधर्मप्रतिपादनपराणां प्रमात्रभिप्रायाणां नयत्वाभिधानाद्, वस्तुनश्चाऽनन्तधर्मवत्त्वादनन्ता नयाः सम्भवन्ति । तथापि प्राक्तनाचार्यैः सर्वाभिप्रायसङ्ग्राहकसप्ताभिप्रायकल्पनया सप्तनया: प्रतिपादिताः । ३. नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य० ॥ प्रमाणनयतत्त्वालोकः ७.१ ।

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342