Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नयविशेषनिरूपणम्
ऽनुपलक्षणात् ।
तात्त्विकार्थेति । शास्त्रे सिद्धान्तित एवाऽर्थः तात्त्विको भवति । तात्त्विकमर्थमेव यः स्वीकरोति स नयो निश्चयनय इत्यर्थः । स पुनः - निश्चयः पुनः । पुनः शब्दोऽयं त्वर्थे, तेन व्यवहारनयादस्य वैशिष्ट्यं प्रतिपाद्यते । तदेव वैशिष्ट्यमाह - मन्यते इत्यादिना । पञ्चवर्णो भ्रमर इत्यभ्युपगच्छति निश्चयनय इत्यर्थः । कथमस्य पञ्चवर्णत्वं येन श्रद्दधीमहि तद्व्यपदेशकस्य निश्चयनयस्य तात्त्विकार्थाभ्युपगमपरत्वमित्याकाङ्क्षायामाह - बादरेति । तच्छरीरस्य-भ्रमरशरीरस्य । यदि पञ्चवर्णो भ्रमरः तर्हि शुक्लरूपादिकमपि श्यामरूपवदेतच्छरीरे उपलभ्येत, नोपलभ्यते चैतावता श्यामवर्णत्वमेव किमिति न कल्प्यते इत्यत आह- शुक्लादीनां चेति । सन्त्येव तत्र शुक्लादीनि, परं श्यामरूपेण न्यग्भूतानि = तिरोभूतानि तानि, एतावताऽनुपलक्षणात्-प्रत्यक्षेऽभासनात् । न त्वनुपलम्भमात्रेणाऽसत्त्वमेव तेषां - बादरस्कन्धत्वेन तत्र तेषां सद्भावस्य प्रमितत्वात् । तिरोभवनप्रभावितानुपलम्भतोऽप्यसत्त्वे दिवा सूर्यकरावमर्शाभिभूतत्वाद् नक्षत्राणामप्यसत्त्वं स्यादित्यर्थः ।
"
व्यवहारनिश्चयनययोः स्वरूपनिरूपणे प्रकारान्तरमाविष्करोति
अथवा एकनयमतार्थंग्राही व्यवहारः, सर्वनयमतार्थग्राही च निश्चयः १ ।
अथवेत्यादिनैव चाऽयं प्रकारो विशेषावश्यके उपदर्शितः । तत्पाठो यथा - " अथवा यत्किमप्येकैकस्य नयस्य मतम्, तद् व्यवहारः प्रतिपद्यते, नाऽन्यत् । कुतः ? यस्मात् सर्वथा सर्वैरपि प्रकारैर्विशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोति - स्थूलदर्शित्वादिति । विनिश्चयस्तु-निश्चयनयो यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यते । (वि० बृ० गा० ३५९०) इति ।
निश्चयनयस्य सर्वमतार्थग्राहित्वे प्रमाणत्वं प्रसज्येतेत्याशङ्क्य प्रतिक्षिपति
न चैवं निश्चयस्य प्रमाणत्वेन नयत्वव्याघातः - सर्वनयमतस्याऽपि स्वार्थस्य तेन प्राधान्याभ्युपगमात् ।
य एव [सर्वनयमतोऽपि] स्वाभिमतोऽपि यदि, तदा तं प्राधान्येनाऽयमुररीकरोति, यश्च 'अथवा एकनय' - अत्र रत्नप्रभायामुद्धृतः 'अथवा यत् ०' इति भाष्यपाठः समस्ति ।
२०९
१. इत्थमप्यस्य सङ्गतिः कर्तुं शक्यते - भावनिक्षेपस्य सकलनयमान्यत्वाद्, निश्चयनयस्य च भावमात्रग्राहित्वात् सकलनयमतार्थग्राहित्वम् । व्यवहारस्य तु न तथा तस्य नामादेरपि ग्राहकत्वात्, शब्दनयैर्नामादीनामनभ्युपगमादिति ।

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342