Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 306
________________ जैनतर्कभाषा (मूल) २७५ पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन । कालतः शैशिरादित्वेन, न वासन्तिकादित्वेन । भावतः श्यामादित्वेन, न रक्तादित्वेनेति । एवं स्यान्नास्त्येव सर्वमिति प्राधान्येन निषेधकल्पनया द्वितीयः । न चाऽसत्त्वं काल्पनिकम्, सत्त्ववत् तस्य स्वातन्त्र्येणाऽनुभवात्, अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याऽभावेन हेतोस्त्रैरूप्यव्याघातप्रसङ्गात् । स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः३, एकेन पदेन युगपदुभयोर्वक्तुमशक्यत्वात्। शतृशानशौ सदित्यादौ साङ्केतिकपदेनाऽपि क्रमेणाऽर्थद्वयबोधनात् । अन्यतरत्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति । सेयं सप्तभङ्गी प्रतिभङ्ग(ङ्ग) सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदोपचाराद्वा क्रमेणाऽभिधायकं वाक्यं विकलादेशः । ननु क: क्रमः, किं वा यौगपद्यम् ? उच्यते यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् । के पुनः कालादयः ? । उच्यते-काल आत्मरूपमर्थः सम्बन्ध उपकार: गुणिदेशः संसर्गः शब्द इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं त्वत्(तत्)कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽभेदवृत्तिः । यदेव चाऽस्तित्वस्य तद्गुणत्वमात्मरूपं तदेवाऽन्यानन्तगुणानामपीत्यात्मरूपेणाऽभेदवृत्तिः । य एव चाऽऽधारे(रो)ऽर्थो द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः । य एव चाऽविष्वग्भावः सम्बन्धोऽस्तित्वस्य स एवाऽन्येषामिति सम्बन्धेनाऽभेदवृत्तिः । य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवाऽन्यैरपीत्युपकारेणाऽभेदवृत्तिः । य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवाऽन्येषामिति गुणिदेशेनाऽभेदवृत्तिः । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवाऽन्येषामिति संसर्गेणाऽभेदवृत्तिः । गुणीभूतभेदादभेदप्रधानात् सम्बन्धाद् विपर्ययेण संसर्गस्य भेदः । य एव चाऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाऽशेषानन्तधर्मात्मकस्याऽपीति शब्देनाऽभेदवृत्तिः, पर्यायार्थिकनयगुणभावेन द्रव्यार्थिकनयप्राधान्यादुपपद्यते। द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवति, समकालमेकत्र नानागुणानामसम्भवात्, सम्भवे वा तदाश्रयस्य भेदप्रसङ्गात्, नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात्, अन्यथा तेषां भेदविरोधात्, स्वाश्रयस्याऽर्थस्याऽपि नानात्वात्, अन्यथा नानागुणाश्रयत्व १. तुलना-प्र० न० ४. १६ । २. तुलना-प्र० न० ४. १७ । ३. तुलना-प्र० न० ४. १८ । ४. -०नचौ-रत्नाकरा० ४. १८ । ५. प्र० न० ४. १९ । ६. प्र० न० ४. २० । ७. तुलना प्र० न० ४. २१ । ८. तुलना प्र० न० ४. ४३ । ९. प्र० न० ४.४४ । १०. तुलना-प्र० न० ४.४५ । ११. द्रष्टव्या-रत्नाकरा० ४. ४४ ।

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342