________________
जैनतर्कभाषा (मूल)
२७५ पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन । कालतः शैशिरादित्वेन, न वासन्तिकादित्वेन । भावतः श्यामादित्वेन, न रक्तादित्वेनेति । एवं स्यान्नास्त्येव सर्वमिति प्राधान्येन निषेधकल्पनया द्वितीयः । न चाऽसत्त्वं काल्पनिकम्, सत्त्ववत् तस्य स्वातन्त्र्येणाऽनुभवात्, अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याऽभावेन हेतोस्त्रैरूप्यव्याघातप्रसङ्गात् । स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः३, एकेन पदेन युगपदुभयोर्वक्तुमशक्यत्वात्। शतृशानशौ सदित्यादौ साङ्केतिकपदेनाऽपि क्रमेणाऽर्थद्वयबोधनात् । अन्यतरत्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ।
सेयं सप्तभङ्गी प्रतिभङ्ग(ङ्ग) सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदोपचाराद्वा क्रमेणाऽभिधायकं वाक्यं विकलादेशः । ननु क: क्रमः, किं वा यौगपद्यम् ? उच्यते यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् ।
के पुनः कालादयः ? । उच्यते-काल आत्मरूपमर्थः सम्बन्ध उपकार: गुणिदेशः संसर्गः शब्द इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं त्वत्(तत्)कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽभेदवृत्तिः । यदेव चाऽस्तित्वस्य तद्गुणत्वमात्मरूपं तदेवाऽन्यानन्तगुणानामपीत्यात्मरूपेणाऽभेदवृत्तिः । य एव चाऽऽधारे(रो)ऽर्थो द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः । य एव चाऽविष्वग्भावः सम्बन्धोऽस्तित्वस्य स एवाऽन्येषामिति सम्बन्धेनाऽभेदवृत्तिः । य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवाऽन्यैरपीत्युपकारेणाऽभेदवृत्तिः । य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवाऽन्येषामिति गुणिदेशेनाऽभेदवृत्तिः । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवाऽन्येषामिति संसर्गेणाऽभेदवृत्तिः । गुणीभूतभेदादभेदप्रधानात् सम्बन्धाद् विपर्ययेण संसर्गस्य भेदः । य एव चाऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाऽशेषानन्तधर्मात्मकस्याऽपीति शब्देनाऽभेदवृत्तिः, पर्यायार्थिकनयगुणभावेन द्रव्यार्थिकनयप्राधान्यादुपपद्यते।
द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवति, समकालमेकत्र नानागुणानामसम्भवात्, सम्भवे वा तदाश्रयस्य भेदप्रसङ्गात्, नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात्, अन्यथा तेषां भेदविरोधात्, स्वाश्रयस्याऽर्थस्याऽपि नानात्वात्, अन्यथा नानागुणाश्रयत्व
१. तुलना-प्र० न० ४. १६ । २. तुलना-प्र० न० ४. १७ । ३. तुलना-प्र० न० ४. १८ । ४. -०नचौ-रत्नाकरा०
४. १८ । ५. प्र० न० ४. १९ । ६. प्र० न० ४. २० । ७. तुलना प्र० न० ४. २१ । ८. तुलना प्र० न० ४. ४३ । ९. प्र० न० ४.४४ । १०. तुलना-प्र० न० ४.४५ । ११. द्रष्टव्या-रत्नाकरा० ४. ४४ ।