Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
परिशिष्ट-२ परमपूज्य-आचार्य-श्रीविजयोदयसूरीश्वर-विरचिता
पद्यकदम्बात्मिका विषयानुक्रमणिका ग्रन्थेऽस्मिन् मानचर्चा प्रथममनु ततो नीतिचर्चा ततोऽन्ते,
निक्षेपाणां विचारो जिनसमयसमालोचना तत्र कान्ता । सिद्धान्तेऽस्मिन् प्रमाणं स्वपरविषयकं ज्ञानमारोपभिन्नं,
नाऽबोधो दर्शनं नो न च निजपरयोरेकभास्येव चाऽसौ ॥१॥ स्वांशे निर्णीतिरूपं भवति ननु फलं तत् प्रमाणं परत्र,
एकस्मिन् नो विरुद्धमिति फलकरणे योजिते ते कथञ्चित् । तन्मानं स्याद् द्विद्भेदं जिनमतप्रथितं स्पष्टमध्यक्षमाद्यं,
स्यादस्पष्टं परोक्षं न परविभजना युज्यते काऽपि तस्य ॥२॥ तत्र स्पष्टं द्विभेदं व्यवहृतिफलकं वस्तुगत्या परोक्षं,
मुख्यं स्पष्टं द्वितीयं प्रथममिह भवेदिन्द्रियानिन्द्रियाभ्याम् । द्वेधा तस्याऽपि भेदः श्रुतमतिविधया तत्प्रभेदोऽप्यनेको,
विस्तीर्णाऽवग्रहादेरपि मननभिदा स्याच्चतुर्द्धा तु तत्र ||३|| सम्बन्धश्चेन्द्रियार्थोभयनियत इह व्यञ्जनावग्रहोऽयं,
मुक्त्वा चक्षुर्मनोऽपि प्रभवति च ततस्स्याच्चतुस्सङ्ख्यकोऽसौ । ज्ञानोपादानभावाद्भवति पुनरयं ज्ञानमव्यक्तरूपं,
नो पूर्वे नाऽपि पश्चात्कथमपि च भवेद् दर्शनं तन्न मान्यम् ॥४॥ तत्पश्चादर्थबोधो भवति समतया नो विशेषेण योऽसौ, .
सर्वैरप्यक्षवगैर्भवति च मनसा षड्विधोऽवग्रहोऽयम् । स द्वेधा निश्चयोत्थो व्यवहृतिनिपुणश्चेति भेदेन भाव्यः, ___ सत्सामान्यैकबोधः प्रथम इह परस्तद्विशेषावगाही ॥५॥ ईहा सम्भावनाख्या तदनु भवति सा तद्विशेषोन्मुखाऽस्याः, प्रायश्शब्देन भाव्यं तदनु गतिवशादेवमुल्लेखरीतिः ।

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342