Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 318
________________ २८७ विषयानुक्रमणिका सादृश्यायूचंताद्यान् घटयति परतो दूरतादींस्तथैव, यस्मात्तस्मात्परा सा समनुगमपरा यत्र तत्रैकरूपा ॥१४॥ पूर्वस्मादुत्तरस्मिन् घटयति च यतश्चैकतां तद्विशिष्टा र्थे द्रव्ये मेयमस्यास्सुगतसुत ततो नाऽपनेयान्वयेयम् । न स्पष्टैकस्वरूपा भवतु कथमियं न्यायमान्यस्वरूपा, भट्टाद्युक्तोपमानं त्विह विशति यतो नाऽधिकं तत्प्रमाणम् ॥१५॥ साकं साध्येन हेतोः समसमयदिशादेशर्मिस्वभावे, व्याप्ति गृह्णाति बोधोऽव्यभिचरितमयी भाविकां तर्क एषः । वाच्यैस्साकं गिरां वाऽवगमननिपुणो वाच्यतादिरशेषा वच्छेदेनैव सोऽयं नियममतितयोहापराख्यः प्रमाणम् ॥१६॥ साध्ये सत्येव हेतुस्सकल इह भवेन्नो विना तं च कोऽपि, एवं स्यात्कुम्भशब्दः सकल इह भवेद्वाचकः कुम्भभावे । इत्याद्याकारकस्सः प्रभवति च दृशेः प्रत्यभिज्ञास्मृतिभ्यां, साध्यादिस्तेन साध्यानुमितिरधिगतिश्चाऽभिधेयस्य शब्दात् ॥१७॥ प्रामाण्यं तस्य बौद्धैरपहतमुचितं तन्न प्रत्यक्षपश्चा- " द्भावेऽपि स्यात्प्रमाणं भवति ननु यतोऽत्रापि वस्तुप्रबन्धः । प्रामाण्यं मान्यमेतद्व्यवहतिबलतो नाविनाभावबोधः, प्रत्यक्षात्पञ्चकाद्यत् सुगतसुतमता प्रक्रिया यत्र मिथ्या ॥१८॥ आहार्यारोपरूपोऽक्षिचरणतनयैः कल्पितो यस्तु तर्कः, शङ्कामात्रव्यवच्छेदनफलकतया न प्रमाणं स्वतः सः । युक्तं नैतन्मतं यत् नियममतितयैवाऽऽदृतोऽयं प्रमाणं, तर्को न्यायाधभीष्टोऽपि भवति फलवान्संशयोच्छेदकत्वात् ॥१९॥ हेतोस्साध्यस्य बोधो नियममतिभवत्सोऽनुमानं प्रमाणं, द्वधा स्वार्थं परार्थं प्रथममिह मतं लिङ्गबोधात्समुत्थं । व्याप्तिस्मृत्याऽपि जन्यं न तु भवति परामर्शबोधोऽत्र हेतु यस्मान्नो पक्षधर्मत्वमपि गमकताङ्गं मतं साधनस्य ॥२०॥ पित्रोर्ब्राह्मण्यतोऽत्राऽनुमितिसमुदयोऽपक्षधर्मात्सुतस्य, ब्राह्मण्ये दृष्ट इत्थं नभसि शशिमतिर्जायते नीरचन्द्रात् । हेतुज्ञानाश्रयत्वात्क्वचिदथ नियमोपस्करत्वात्क्वचिच्च, भानं पक्षस्य साध्यानुमितिगतमतो युज्यते व्याप्तितोऽपि ॥२१॥ अन्तर्व्याप्त्या च पक्षे नियममतिबलात्पक्षभानप्रक्तृप्ति ! युक्ता व्याप्तिभेदो न विषयनियतः किन्त्वभीष्टः स्वतः सन् ।

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342