Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 317
________________ २८६ परिशिष्ट-२ एषा स्यान्निश्चयोत्था व्यवहृतिप्रभवा या तु तस्याः स्वरूपं, प्रायः शाङ्ग्रेन भाव्यं मधुरगुणबलादेवमग्रेऽपि भेदः ॥६॥ शब्दोऽयं शाङ्ख एवाऽयमिति च तदनु स्यादवायस्स एव, किञ्चित्कालस्थितत्वाद् दृढतम उदितो धारणाख्यश्चतुर्थः । त्रेधाऽऽद्याऽविच्युतिः सा स्मृतिरपि च परा मध्यमा वासनाऽन्या, एवं सिद्धान्तगत्या मतिरिह विबुधैर्भावनीया चतुर्धा ॥७॥ एवं सिद्धान्तमान्यं श्रुतमपि गदितं त्वक्षरानक्षराद्यै भैदैभिन्नं कथञ्चिन्मनुप्रमितमिदं द्रव्यतो भावतश्च । एवं प्रत्यक्षतायां श्रुतमतिभजना स्यात्परोक्षेऽपि तेन, ज्ञाने नाऽऽधिक्यशङ्का प्रभवति बुधगा पञ्चभेदात्परोक्षे ॥८॥ आत्मव्यापारमात्रप्रभवमनुमतं मुख्यमस्पष्टभिन्नं, स्पष्टं तच्च द्विभेदं विकलसकलनायोगतस्तत्र चाऽऽद्यम् । द्वेधा स्यादादिमो योऽवधिरिति प्रथितोऽशेषरूप्येकबोधः, ___षोढा ज्ञेयोऽनुगामिप्रभृतिनिजभिदाभाजनो मानविद्भिः ॥९॥ अन्त्यो बोधो मनःपर्यव इति प्रथितः स्वान्तपर्यायमात्र ग्राही साक्षात्स चिन्ताविषयमनुमया वेत्ति नो तं तु साक्षात् । द्वौ भेदौ तस्य चोक्तौ ऋजुविपुलमती यस्य मेयो विशेषः, स्वल्पः पूर्वस्स मान्यस्तदधिकविषयो भावनीयो द्वितीयः ॥१०॥ यो द्रव्यं पर्यवञ्चाऽखिलमपि विषयं वेत्ति साक्षात्स पूर्णो, बोधो ज्ञेयो जिनानां भवति च सकलो नाऽस्य भेदप्रभेदौ । तद्वान् स्यात्केवली यो भवति कवलभुग नाऽन्यथौदारिकस्य, देहस्य स्यात्स्थितिर्यद्विवसनमननं युक्त्यपेतं न मान्यम् ॥११॥ स्वाभाव्यात्केवलं तत्सकलविषयकं स्वावृतेरेव नाशात्, नेदं योगोत्थधर्मात्प्रभवति मनसाऽगोचरे भावसार्थे । किन्तु स्वाशेषकर्मावरणविगमतो जायमानस्य चाऽस्य, स्वग्राह्येऽशेषभावे किमपि विषयतारोधकं यन्न चाऽस्ति ॥१२॥ अस्पष्टं यत्परोक्षं भवति ननु भिदा पञ्चधा तस्य तत्र, याऽसौ पूर्वानुभूतार्थविषयनियता साऽनुभूत्येकजन्या । मानं स्मृत्याख्यमिष्टं न च निजविषये साऽन्यतन्त्रानुभावात्, न प्रामाण्ये तथा साऽनुभवनियतता जन्ममात्रे तु तस्याः ॥१३॥ मानं स्यात्प्रत्यभिज्ञा स्मृतिसहकृतया जायते साऽनुभूत्या, तिर्यक्सामान्यमुख्यान् बहुविधविषयान् भासयत्यत्र यस्मात् ।

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342