Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 310
________________ जैनतर्कभाषा (मूल) २७९ १नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुगच्छति, विकलादेशत्वात् परमेतद्वाक्यस्य प्रमाणवाक्याद्विशेष इति द्रष्टव्यम् । [नयाभासानां निरूपणम् ।] अथ नयाभासाः । तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः । पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः । धर्मिधर्मादीनामे(मै)कान्तिकपार्थक्याभिसन्धिर्भेगमाभासः, यथा नैयायिकवैशेषिकदर्शनम् । सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः संग्रहाभासः, यथाऽखिलान्यद्वैतवादिदर्शनानि सांख्यदर्शनं च । ४अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहाराभासः, यथा चार्वाकदर्शनम्, 'चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनाऽपडते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्राभासः, यथा "ताथागतं मतं । “कालादिभेदेनाऽर्थभेदमेवाऽभ्युपगच्छन् शब्दाभासः, यथा बभूव भवति भविष्यति सुमेरुरित्यादयः शब्दा भिन्नमेवाऽर्थमभिदधति, भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदिति । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः, यथा इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्नशब्दत्वात्, करिकुरङ्गशब्दवदिति । १°क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन्नेवम्भूताभासः, ११यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्, पटवदिति । अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः । शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः । अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपन्ननर्पितनयाभासः । अनर्पितमभिदधर्पितं प्रतिक्षिपन्ननर्पिताभासः । लोकव्यवहारमभ्युपगम्य तत्त्वप्रतिक्षेपी व्यवहाराभासः । तत्त्वमभ्युपगम्य व्यवहारप्रतिक्षेपी निश्चयाभासः । ज्ञानमभ्युपगम्य क्रियाप्रतिक्षेपी ज्ञाननयाभासः । क्रियामभ्युपगम्य ज्ञानप्रतिक्षेपी क्रियानयाभास इति । इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यावतंस-पण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयगणिना विरचितायां जैनतर्कभाषायां नयपरिच्छेदः सम्पूर्णः । ३. निक्षेपरिच्छेदः । [नामादिनिक्षेपनिरूपणम् । नया निरूपिताः । अथ निःक्षेपा निरूप्यन्ते । प्रकरणादिवशेनाऽप्रतिपत्या(त्त्या)दिव्यवच्छेदक १. तुलना-प्र० न० ७.५३ । २. तुलना-प्र० न० ७. ११, १२ । लघीय० स्ववि० ५. ९ । तत्त्वार्थश्लोकवा० १. ३३. ३१, ३४, ३६, ३८, ४०, ४२, ४४, ४७ । ३. तुलना-प्र० न० ७. १७, १८, २१, २२ । लघीय० ५. ८ । त्तत्त्वार्थश्लोकवा० १. ३३. ५२-५४, ५७ । ४. तुलना-प्र० न० ७. २५, २६ । लघीय० ५.१२। तत्त्वार्थश्लोकवा० १. ३३. ६० । ५. स्या० र० पृ० १०५८ । ६. तुलना-प्र० न० ७. ३०, ३१ । तत्त्वार्थश्लोकवा० १.३३.६२ । ७. तथागतमतं-सं० मु० । ८. तुलना-प्र० न० ७.३४, ३५ । तत्त्वार्थश्लोकवा० १. ३३. ८० । ९. तुलना-प्र० न० ७. ३८, ३९ । १०. तुलना-प्र० न० ७. ४२ । ११. प्र० न० ७. ४३ । १२. -०प्रतिपत्यवच्छेदक०-व० प्रतौ प्रथमं लिखितं पठ्यते ।

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342