________________
जैनतर्कभाषा (मूल)
२७९ १नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुगच्छति, विकलादेशत्वात् परमेतद्वाक्यस्य प्रमाणवाक्याद्विशेष इति द्रष्टव्यम् ।
[नयाभासानां निरूपणम् ।] अथ नयाभासाः । तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः । पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः । धर्मिधर्मादीनामे(मै)कान्तिकपार्थक्याभिसन्धिर्भेगमाभासः, यथा नैयायिकवैशेषिकदर्शनम् । सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः संग्रहाभासः, यथाऽखिलान्यद्वैतवादिदर्शनानि सांख्यदर्शनं च । ४अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहाराभासः, यथा चार्वाकदर्शनम्, 'चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनाऽपडते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्राभासः, यथा "ताथागतं मतं । “कालादिभेदेनाऽर्थभेदमेवाऽभ्युपगच्छन् शब्दाभासः, यथा बभूव भवति भविष्यति सुमेरुरित्यादयः शब्दा भिन्नमेवाऽर्थमभिदधति, भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदिति । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः, यथा इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्नशब्दत्वात्, करिकुरङ्गशब्दवदिति । १°क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन्नेवम्भूताभासः, ११यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्, पटवदिति । अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः । शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः । अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपन्ननर्पितनयाभासः । अनर्पितमभिदधर्पितं प्रतिक्षिपन्ननर्पिताभासः । लोकव्यवहारमभ्युपगम्य तत्त्वप्रतिक्षेपी व्यवहाराभासः । तत्त्वमभ्युपगम्य व्यवहारप्रतिक्षेपी निश्चयाभासः । ज्ञानमभ्युपगम्य क्रियाप्रतिक्षेपी ज्ञाननयाभासः । क्रियामभ्युपगम्य ज्ञानप्रतिक्षेपी क्रियानयाभास इति ।
इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यावतंस-पण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयगणिना
विरचितायां जैनतर्कभाषायां नयपरिच्छेदः सम्पूर्णः ।
३. निक्षेपरिच्छेदः ।
[नामादिनिक्षेपनिरूपणम् । नया निरूपिताः । अथ निःक्षेपा निरूप्यन्ते । प्रकरणादिवशेनाऽप्रतिपत्या(त्त्या)दिव्यवच्छेदक
१. तुलना-प्र० न० ७.५३ । २. तुलना-प्र० न० ७. ११, १२ । लघीय० स्ववि० ५. ९ । तत्त्वार्थश्लोकवा० १.
३३. ३१, ३४, ३६, ३८, ४०, ४२, ४४, ४७ । ३. तुलना-प्र० न० ७. १७, १८, २१, २२ । लघीय० ५. ८ । त्तत्त्वार्थश्लोकवा० १. ३३. ५२-५४, ५७ । ४. तुलना-प्र० न० ७. २५, २६ । लघीय० ५.१२। तत्त्वार्थश्लोकवा० १. ३३. ६० । ५. स्या० र० पृ० १०५८ । ६. तुलना-प्र० न० ७. ३०, ३१ । तत्त्वार्थश्लोकवा० १.३३.६२ । ७. तथागतमतं-सं० मु० । ८. तुलना-प्र० न० ७.३४, ३५ । तत्त्वार्थश्लोकवा० १. ३३. ८० । ९. तुलना-प्र० न० ७. ३८, ३९ । १०. तुलना-प्र० न० ७. ४२ । ११. प्र० न० ७. ४३ । १२. -०प्रतिपत्यवच्छेदक०-व० प्रतौ प्रथमं लिखितं पठ्यते ।