Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 312
________________ जैनतर्कभाषा (मूल) २८१ स्थापनाद्रव्याभ्यामुक्तवैधादेव भिद्यत इति । दुग्धतक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिना भेदवन्नामादीनां केनचिद्रूपेणाऽभेदेऽपि रूपान्तरेण भेद इति स्थितम् । ननु भाव एव वस्तु, किं तदर्थशून्यैर्नामादिभिरिति चेत्, न, नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो भावत्वानतिक्रमात्, अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिभेदचतुष्टयपरामर्शनात्, प्रकरणादिनैव विशेषपर्यवसानात् । ३भावाङ्गत्वेनैव वा नामादीनामुपयोगः जिननाम-जिनस्थापना-परिनिर्वृतमुनिदेहदर्शनाद्भावोल्लासानुभवात् । केवलं नामादित्रयं भावोल्लासेऽनैकान्तिकमनात्यन्तिकं च कारणमिति ऐकान्तिकात्यन्तिकस्य भावस्याऽभ्यर्हितत्वमनुमन्यन्ते प्रवचनवृद्धा: । एतच्च भिन्नवस्तुगत-नामाद्यपेक्षयोक्तम् । ___ अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम्, सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात्, स्वाकारस्य स्थापनारूपत्वात्, कारणतायाश्च द्रव्यरूपत्वात्, कार्यापन्नस्य च स्वस्य भावरूपत्वात् । यदि च घटनाम घटधर्मो न भवेत् तदा ततस्तत्संप्रत्ययो न स्यात्, तस्य स्वापृथग्भूतसंबन्धनिमित्तकत्वादिति सर्वं नामात्मकमेष्टव्यम्। साकारं च सर्वं मति-शब्द-घटादीनामाकारवत्त्वात्, नीलाकारसंस्थानविशेषादीनामाकारणामनुभवसिद्धत्वात् । द्रव्यात्मकं च सर्वम्-उत्फणविफणकुण्डलिताकारसमन्वितसर्पवत् विकाररहितस्याऽऽविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात् । ९भावात्मकं च सर्वं परापरकार्यक्षणसन्तानात्मकस्यैव तस्याऽनुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवाद:१०। [निःक्षेपाणां नयेषु योजना ।] अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाऽभिमतम्, पर्यायास्तिकनयस्य च भाव एव । आद्यस्य भेदौ सङ्ग्रहव्यवहारौ, नैगमस्य यथाक्रमं सामान्यग्राहिणो विशेषग्राहिणश्च अनयोरेवाऽन्तर्भावात् । ऋजुसूत्रादयश्च चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाऽभिहितं जिनभद्रगणिक्षमाश्रमणपूज्यपादैः "नामाइतियं दव्वट्ठियस्स भावो अ पज्जवणयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥" [७५] इत्यादिना विशेषावश्यके । स्वमते तु नमस्कारनिक्षेपविचारस्थले "भावं चिय सद्दणया सेसा इच्छन्ति सव्वणिक्खेवे ॥" [२८४७] इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद् भावमेवेच्छन्ति, ऋजुसूत्रादयस्तु चत्वारश्चतुरोऽपि निक्षेपानिच्छन्ति अविशुद्धत्वादित्युक्तम् । ११ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तत्र(तन्न), ऋजुसूत्रेण द्रव्याभ्युपगमेस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगं १. तुलना-विशेषा० गा० ५५ । २. परमार्शदर्शनात्-सं० । ३. तुलना-विशेषा० गा० ५६-५८ । ४. -०मन्यन्ते च प्रव०-प्र० । ५. विशेषा० गा० ५९ । ६. तुलना-विशेषा०६०। ७. -०माकारत्वान्नी०- प्र० । ८. तुलनाविशेषा० गा० ६६-६८ । ९. तुलना-विशेषा० गा० ६९-७१ । १०. तुलना-विशेषा० गा० ७२, ७३ । ११. तुलना-विशेषा० गा० २८४८ । १२. द्रव्याभ्युपगतस्य-सं० ।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342