________________
जैनतर्कभाषा (मूल)
२८१ स्थापनाद्रव्याभ्यामुक्तवैधादेव भिद्यत इति । दुग्धतक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिना भेदवन्नामादीनां केनचिद्रूपेणाऽभेदेऽपि रूपान्तरेण भेद इति स्थितम् ।
ननु भाव एव वस्तु, किं तदर्थशून्यैर्नामादिभिरिति चेत्, न, नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो भावत्वानतिक्रमात्, अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिभेदचतुष्टयपरामर्शनात्, प्रकरणादिनैव विशेषपर्यवसानात् । ३भावाङ्गत्वेनैव वा नामादीनामुपयोगः जिननाम-जिनस्थापना-परिनिर्वृतमुनिदेहदर्शनाद्भावोल्लासानुभवात् । केवलं नामादित्रयं भावोल्लासेऽनैकान्तिकमनात्यन्तिकं च कारणमिति ऐकान्तिकात्यन्तिकस्य भावस्याऽभ्यर्हितत्वमनुमन्यन्ते प्रवचनवृद्धा: । एतच्च भिन्नवस्तुगत-नामाद्यपेक्षयोक्तम् ।
___ अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम्, सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात्, स्वाकारस्य स्थापनारूपत्वात्, कारणतायाश्च द्रव्यरूपत्वात्, कार्यापन्नस्य च स्वस्य भावरूपत्वात् । यदि च घटनाम घटधर्मो न भवेत् तदा ततस्तत्संप्रत्ययो न स्यात्, तस्य स्वापृथग्भूतसंबन्धनिमित्तकत्वादिति सर्वं नामात्मकमेष्टव्यम्। साकारं च सर्वं मति-शब्द-घटादीनामाकारवत्त्वात्, नीलाकारसंस्थानविशेषादीनामाकारणामनुभवसिद्धत्वात् । द्रव्यात्मकं च सर्वम्-उत्फणविफणकुण्डलिताकारसमन्वितसर्पवत् विकाररहितस्याऽऽविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात् । ९भावात्मकं च सर्वं परापरकार्यक्षणसन्तानात्मकस्यैव तस्याऽनुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवाद:१०।
[निःक्षेपाणां नयेषु योजना ।] अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाऽभिमतम्, पर्यायास्तिकनयस्य च भाव एव । आद्यस्य भेदौ सङ्ग्रहव्यवहारौ, नैगमस्य यथाक्रमं सामान्यग्राहिणो विशेषग्राहिणश्च अनयोरेवाऽन्तर्भावात् । ऋजुसूत्रादयश्च चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाऽभिहितं जिनभद्रगणिक्षमाश्रमणपूज्यपादैः
"नामाइतियं दव्वट्ठियस्स भावो अ पज्जवणयस्स ।
संगहववहारा पढमगस्स सेसा उ इयरस्स ॥" [७५] इत्यादिना विशेषावश्यके । स्वमते तु नमस्कारनिक्षेपविचारस्थले
"भावं चिय सद्दणया सेसा इच्छन्ति सव्वणिक्खेवे ॥" [२८४७] इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद् भावमेवेच्छन्ति, ऋजुसूत्रादयस्तु चत्वारश्चतुरोऽपि निक्षेपानिच्छन्ति अविशुद्धत्वादित्युक्तम् ।
११ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तत्र(तन्न), ऋजुसूत्रेण द्रव्याभ्युपगमेस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगं
१. तुलना-विशेषा० गा० ५५ । २. परमार्शदर्शनात्-सं० । ३. तुलना-विशेषा० गा० ५६-५८ । ४. -०मन्यन्ते
च प्रव०-प्र० । ५. विशेषा० गा० ५९ । ६. तुलना-विशेषा०६०। ७. -०माकारत्वान्नी०- प्र० । ८. तुलनाविशेषा० गा० ६६-६८ । ९. तुलना-विशेषा० गा० ६९-७१ । १०. तुलना-विशेषा० गा० ७२, ७३ । ११. तुलना-विशेषा० गा० २८४८ । १२. द्रव्याभ्युपगतस्य-सं० ।