________________
२८२
परिशिष्ट-१ दव्वावस्सयं, पुहत्तं नेच्छइ त्ति" [अनुयो० सू० १४] । 'कथं चाऽयं पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षण-भावहेतुत्वेनाऽभ्युपगच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकारामिन्द्रादिस्थापनां नेच्छेत् ? न हि दृष्टेऽनुपपन्नं नामेति । किञ्च, इन्द्रादिसञ्ज्ञामात्रं तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारणत्वाविशेषात् कुतो द्रव्यस्थापने नेच्छेत् ? प्रत्युत सुतरां तदभ्युपगमो न्याय्यः । इन्द्रमूर्तिलक्षणद्रव्य-विशिष्टतदाकाररूपस्थापनयोरिन्द्रपर्यायरूपे भावे तादात्म्यसम्बन्धेनाऽवस्थितत्वात्तत्र वाच्यवाचकभावसम्बधेन सम्बद्धान्नाम्नोऽपेक्षया सन्निहिततरकारणत्वात् ।।
_ सङ्ग्रहेव्यवहारौ स्थापनाव स्त्रीन्निक्षेपानिच्छत इति केचित्, तन्नाऽनवा, यतः संग्रहिकोऽसंग्रेहिकोऽनर्पितभेदः परिपूर्णो वा नैगमस्तावत् स्थापनामिच्छतीत्यवश्यमभ्युपेयम्, सङ्ग्रहव्यवहारयोरन्यत्र द्रव्याथिके स्थापनाभ्युपगमावर्जनात् । तत्राऽऽद्यपक्षे संग्रहे स्थापनाभ्युपगमप्रसङ्गः, संग्रहनयमतस्य संग्रहिकनैगममताविशेषात् । द्वितीये व्यवहारे तदभ्युपगमप्रसङ्गः, तन्मतस्य व्यवहारमतादविशेषात् । तृतीये च निरपेक्षयोः संग्रहव्यवहारयोः स्थापनानभ्युपगमोपपत्तावपि समुदितयोः संपूर्णनैगमरूपत्वात् तदभ्युपगमस्य दुर्निवारत्वम्, अविभागस्थाद् नैगमात्प्रत्येकं तदेकैकभागग्रहणात् । किञ्च, सङ्ग्रहव्यवहारयोर्नंगमान्तर्भावात्स्थापनाभ्युपगमलक्षणं तन्मतमपि तत्राऽन्तर्भूतमेव, उभयधर्मलक्षणस्य विषयस्य प्रत्येकमप्रवेशेऽपि स्थापनालक्षणस्यैकधर्मस्य प्रवेशस्य सूपपादत्वात्, “स्थापनासामान्य-तद्विशेषाभ्युपगममात्रेणैव सङ्ग्रहव्यवहारयोर्भेदोपपत्तेरिति यथागमं भावनीयम् । एतैश्च नामादिनिक्षेपैर्जीवादयः पदार्था निक्षेप्याः ।
[जीवविषये निःक्षेपाः ।। ___ तत्र यद्यपि यस्य जीवस्याऽजीवस्य वा जीव इति नाम क्रियते स नामजीवः, देवतादिप्रतिमा च स्थापनाजीवः, औपशमिकादिभावशाली च भावजीव इति जीवविषयं निक्षेपत्रयं सम्भवति, न तु द्रव्यनिक्षेपः । अयं हि तदा सम्भवेत्, यद्यजीवः सन्नायत्यां जीवोऽभविष्यत्, यथाऽदेवः सन्नायत्यां देवो भविष्यत्(न्) द्रव्यदेव इति । न चैतदिष्टं सिद्धान्ते, यतो जीवत्वमनादिनिधनः पारिणामिको भाव इष्यत इति । तथापि गुणपर्यायवियुक्तत्वेन बुद्ध्या कल्पितोऽनादिपारिणामिक-भावयुक्तो द्रव्यजीवः, शून्योऽयं भङ्ग इति यावत्, सतां गुणपर्यायाणां बुद्ध्याऽपनयस्य कर्तुमशक्यत्वात् । न खलु ज्ञानायत्ताऽर्थपरिणतिः, किन्तु अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीति । न चैवं नामादिचतुष्टयस्य व्यापिताभङ्गः, यतः प्रायः सर्वपदार्थेष्वन्येषु तत् सम्भवति । यद् यत्रैकस्मिन्न सम्भवति नैतावता भवत्यव्यापितेति वृद्धाः । जीवशब्दार्थज्ञस्तत्राऽनुपयुक्तो द्रव्यजीव इत्यप्याहुः । अपरे तु वदन्ति-अहमेव मनुष्यजीवो [द्रव्यजीवो]ऽभिधातव्यः, उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवामि, यतश्चाऽहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति । एतत्कथितं तैर्भवति-पूर्वः पूर्वो जीव: परस्य परस्योत्पित्सोः कारणमिति । अस्मिश्च पक्षे सिद्ध एव भावजीवो भवति, नान्य इति-एतदपि नाऽनवद्यमिति तत्त्वार्थटीकाकृतः।
इदं पुनरिहाऽवधेयं-इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः, एकवस्तुगतानां नामादीनां
१. तुलना-विशेषा० गा० २८४९ । २. तुलना-विशेषा० बृ० गा० २८४७ । ३. -०ऽसङ्ग्राहिको-प्र० व० । ४.
सङ्ग्राहिके नैग०-सं० । ५. तुलना-विशेषा० गा० २८५५ । ६. व० प्रतौ प्रथमलिखितं 'मनुष्यजीवो द्रव्यजीवोऽभि०' इति पाठं परिमाय॑ 'मनुष्यजीवोऽभि०-' इत्यादि कृतं दृश्यते । ७. तत्त्वार्थ भा० वृ० पृ०४८ ।