________________
जैनतर्कभाषा (मूल)
२८३ भावाविनाभूतत्वप्रतिपादनात् । तदाह भाष्यकार:
"अहवा वत्थूभिहाणं, नामं ठवणा य जो तयागारो ।
कारणया से दव्वं, कज्जावन्नं तयं भावो ॥" [विशेषा० ६०] इति । केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्यात्, मनुष्यादेर्देवादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं 'नयरहस्यादौ विवेचितमस्माभिः ॥
इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यावतंस-पण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयगणिना
विरचितायां जैनतर्कभाषायां निक्षेपपरिच्छेदः सम्पूर्णः,
तत्सम्पूर्ती च सम्पूर्णेयं जैनतर्कभाषा ॥
॥स्वस्ति श्रीश्रमणसङ्घाय ॥
॥ प्रशस्तिः ॥ सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । तत्सेवाऽप्रतिमप्रसादजनितश्रद्धानशुद्ध्या कृतः, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ यस्याऽऽसन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः, तेन न्यायविशारदेन रचिता स्तात्सर्कभाषा मुदे ॥२॥ तर्कभाषामिमां कृत्वा मया यत्पुण्यमर्जितम् । प्राप्नुयां तेन विपुलां परमानन्दसम्पदम् ॥३॥ पूर्वं न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैः, न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्याऽर्पितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशुः, तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥४॥
१. पृ० ८४ ।