Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 283
________________ २५२ सटीकजैनतर्कभाषायां पारिणामिकस्याऽपि भव्यत्वस्य मुक्तौ विनाशो भवति, नैवं जीवत्वस्येत्यावेदयितुं जीवत्वमित्युक्तम् । इष्यते इत्यत्र सिद्धान्ते इत्यनुवर्तते । एतावता द्रव्यनिक्षेपस्य जीवेऽभावाद्, निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वं प्रतिपायेदानीं तद्व्यापकत्वपक्षपातादाह तथापि गुणपर्यायवियुक्तत्वेन बुद्ध्या कल्पितोऽनादिपारिणामिकभावयुक्तो द्रव्यजीवः । तथापि उक्तदिशा द्रव्यनिक्षेपस्य जीवेऽसम्भवेऽपि । गुणपर्यायवियुक्तत्वेनेति । सहभाविनो गुणा जीवस्योपयोगादयः, क्रमभाविनः पर्याया जीवस्य हर्षशोकविषादादयः-ताभ्यां वियुक्तत्वेन रहितत्वेनेत्यर्थः । २यस्य यो गुणः, तस्य तत्र यदाकदाप्यभावेऽपि यस्मिन् कस्मिन्नपि क्षणे पर्यायसामान्याभावाभ्युपगतौ-'द्रवति तान् तान् पर्यायान् गच्छतीति द्रव्य'मिति व्युत्पत्तिलभ्यस्य पर्यायानुगामित्वस्य तदानीमभावेन द्रव्यत्वमेव न स्याद् । एवमुत्पादव्ययध्रौव्ययुक्तत्वं वस्तुन सर्वकालनियतं सत्त्वम् । तत्र द्रव्यस्य स्वस्वरूपेण ध्रौव्ये प्रतिक्षणं कस्यचित् पर्यायस्योत्पादः, कस्यचित् पर्यायस्य विनाश इत्यत एवोत्पादव्ययौ तत्र । पर्यायवियुक्ते च तदुत्पादव्ययाधीनोत्पादव्यययोरभावाद् निरुक्तलक्षणं सत्त्वमेव न स्याद् । व्यापकस्य सत्त्वस्याऽभावे तद्व्याप्यं द्रव्यत्वमपि न भवेदेव । तथा गुणपर्यायवद् द्रव्यमिति द्रव्यलक्षणस्य तदानीमभावादपि द्रव्यत्वं तदानीं न स्यादतो गुणपर्यायवियुक्तत्वं नाऽस्त्येव द्रव्यस्येत्यत आह-बुद्ध्या कल्पित इति । शास्त्रे ४ गुणपर्यायवद् द्रव्य'मित्यनेन गुणपर्याययोर्धर्मतया द्रव्यस्य धर्मितयोपादानाद्, धर्मर्मिभावस्य दण्डी पुरुष इत्यादौ दण्डमन्तरेणाऽपि पुरुषस्य, पुरुषमन्तरेणाऽपि दण्डस्य दर्शनेन पृथग्भावो यथा तत्र, तथाऽत्राऽप्येवं स्याद् बुद्ध्या कल्पितः । ननु तत्र पुरुषस्याऽसाधारणस्वभावपुरुषत्वमस्तीति दण्डवियुक्तत्वेऽपि पुरुषः सम्भवति, जीवस्य तु ज्ञानादिवियुक्तत्वे ईदृशस्वभाव एव नोपलभ्यते इति कथं बुद्ध्याऽपि गुणपर्यायवियुक्तत्वेन स्थापितः स स्यादित्यत आह-अनादीति । अनादिपारिणामिको यो जीवादिलक्षणो १. औपशमिकादिभव्यत्वाभावाच्चा.... ॥ (तत्त्वा० १०-४) २. इत आरम्भ 'बुद्ध्या कल्पित' इत्युक्तौ कारणत्रयं दर्शितमस्ति । ३. उत्पादव्ययध्रौव्ययुक्तं सत् ॥ (तत्त्वा० ५-२९) ४. गुणपर्यायवद् द्रव्यम् ॥ (तत्त्वा० ५-३७)

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342