________________
२५२
सटीकजैनतर्कभाषायां पारिणामिकस्याऽपि भव्यत्वस्य मुक्तौ विनाशो भवति, नैवं जीवत्वस्येत्यावेदयितुं जीवत्वमित्युक्तम् । इष्यते इत्यत्र सिद्धान्ते इत्यनुवर्तते ।
एतावता द्रव्यनिक्षेपस्य जीवेऽभावाद्, निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वं प्रतिपायेदानीं तद्व्यापकत्वपक्षपातादाह
तथापि गुणपर्यायवियुक्तत्वेन बुद्ध्या कल्पितोऽनादिपारिणामिकभावयुक्तो द्रव्यजीवः ।
तथापि उक्तदिशा द्रव्यनिक्षेपस्य जीवेऽसम्भवेऽपि । गुणपर्यायवियुक्तत्वेनेति । सहभाविनो गुणा जीवस्योपयोगादयः, क्रमभाविनः पर्याया जीवस्य हर्षशोकविषादादयः-ताभ्यां वियुक्तत्वेन रहितत्वेनेत्यर्थः ।
२यस्य यो गुणः, तस्य तत्र यदाकदाप्यभावेऽपि यस्मिन् कस्मिन्नपि क्षणे पर्यायसामान्याभावाभ्युपगतौ-'द्रवति तान् तान् पर्यायान् गच्छतीति द्रव्य'मिति व्युत्पत्तिलभ्यस्य पर्यायानुगामित्वस्य तदानीमभावेन द्रव्यत्वमेव न स्याद् । एवमुत्पादव्ययध्रौव्ययुक्तत्वं वस्तुन सर्वकालनियतं सत्त्वम् । तत्र द्रव्यस्य स्वस्वरूपेण ध्रौव्ये प्रतिक्षणं कस्यचित् पर्यायस्योत्पादः, कस्यचित् पर्यायस्य विनाश इत्यत एवोत्पादव्ययौ तत्र । पर्यायवियुक्ते च तदुत्पादव्ययाधीनोत्पादव्यययोरभावाद् निरुक्तलक्षणं सत्त्वमेव न स्याद् । व्यापकस्य सत्त्वस्याऽभावे तद्व्याप्यं द्रव्यत्वमपि न भवेदेव । तथा गुणपर्यायवद् द्रव्यमिति द्रव्यलक्षणस्य तदानीमभावादपि द्रव्यत्वं तदानीं न स्यादतो गुणपर्यायवियुक्तत्वं नाऽस्त्येव द्रव्यस्येत्यत आह-बुद्ध्या कल्पित इति । शास्त्रे ४ गुणपर्यायवद् द्रव्य'मित्यनेन गुणपर्याययोर्धर्मतया द्रव्यस्य धर्मितयोपादानाद्, धर्मर्मिभावस्य दण्डी पुरुष इत्यादौ दण्डमन्तरेणाऽपि पुरुषस्य, पुरुषमन्तरेणाऽपि दण्डस्य दर्शनेन पृथग्भावो यथा तत्र, तथाऽत्राऽप्येवं स्याद् बुद्ध्या कल्पितः ।
ननु तत्र पुरुषस्याऽसाधारणस्वभावपुरुषत्वमस्तीति दण्डवियुक्तत्वेऽपि पुरुषः सम्भवति, जीवस्य तु ज्ञानादिवियुक्तत्वे ईदृशस्वभाव एव नोपलभ्यते इति कथं बुद्ध्याऽपि गुणपर्यायवियुक्तत्वेन स्थापितः स स्यादित्यत आह-अनादीति । अनादिपारिणामिको यो जीवादिलक्षणो
१. औपशमिकादिभव्यत्वाभावाच्चा.... ॥ (तत्त्वा० १०-४) २. इत आरम्भ 'बुद्ध्या कल्पित' इत्युक्तौ कारणत्रयं दर्शितमस्ति । ३. उत्पादव्ययध्रौव्ययुक्तं सत् ॥ (तत्त्वा० ५-२९) ४. गुणपर्यायवद् द्रव्यम् ॥ (तत्त्वा० ५-३७)