________________
जीवविषयकद्रव्यनिक्षेपः
२५३ भावः तेन युक्त इत्यर्थः । 'सादेर्भावस्य पर्यायत्वेन तद्युक्तस्य बुद्ध्या पर्यायवियुक्तत्वकल्पना न सम्भवतीत्यतोऽनादीति ।
शून्योऽयं भङ्ग इति यावत्-सतां गुणपर्यायाणां बुद्ध्याऽपनयस्य कर्तुमशक्यत्वात् । न खलु ज्ञानायत्ताऽर्थपरिणतिः, किन्त्वर्थों यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीति ।
तत्त्वार्थाधिगमे "अथवा शून्योऽयं भङ्ग" इत्येवमुल्लेखादेकस्मिन् पक्षे उक्तदिशा द्रव्यजीवः सम्भवति, पक्षान्तरे न सम्भवतीत्यर्थो लभ्यते । ग्रन्थकारेण तु अथवेति पक्षान्तरसूचकं वचनमनुपादायैव इति यावदित्यन्ते वचनमुपादाय यत् तदेवोक्तम्, तेनेदं ज्ञापितंविभिन्नपक्षतयाऽवबोधनस्थले, आदावन्ते [वा ?], वा इति केचिदित्यन्ये आचार्या इत्याद्यन्यतमवचनमवश्यमेव भवति । तादृशवचनाभावाद् न कल्पान्तरमिति प्रथमस्य प्रपञ्चनम् । अथवेत्युक्तिश्च प्रतिपाद्यबुद्धिवैशद्यायेत्थं प्रथममभिहितम्, न तु तथा सम्भवतीति बोधनार्थम् ।
कथं द्रव्यजीव उक्तदिशा प्रतिपादितोऽपि शून्यः ? शून्यत्वं ह्यसम्भवदर्थकत्वे सत्त्वेन वचनात्मकभङ्गस्य घटते, नाऽन्यथेत्यतोऽसम्भवदर्थकत्वं दर्शयति-सतामिति । सतां-जीवद्रव्ये सर्वदैव विद्यमानानाम् ।
यदि यथा ज्ञानं भवति तथैव वस्तु सन् (वस्तुतः ?) अर्थो भवेत्, तदा सम्भाव्यताऽपि गुणपर्यायवियुक्तत्वेन जीवस्य बुद्धितः तथाविधो जीवः । न चैवम्, किन्तु येन रूपेणाऽर्था भवन्ति तेन रूपेणैव तज्ज्ञानं भवति । तथा च गुणपर्यायवियुक्तस्य जीवस्याऽभावात् तथा बुद्धिः सम्भवत्येव नेति न तयाऽसम्भवन्त्या बुद्ध्या द्रव्यस्थापना युक्तेत्याह-न खलु इति ।
नन्वेवं यद्यपीत्यादिना संसूचिता 'निक्षेपचतुष्टयस्य न सर्वव्यापकता स्या'दित्याशङ्काऽनिवारितप्रसरैवेत्याशङ्का प्रतिक्षिपति
न चैवं नामादिचतुष्टयव्यापिताभङ्गः, यतः प्रायः सर्वपदार्थेष्वन्येषु तत् सम्भवति । यद् यत्रैकस्मिन् न सम्भवति नैतावता भवत्यव्यापितेति वृद्धाः।
एवं-द्रव्यजीव इति भङ्गस्य शून्यत्वे सति । निषेधहेतुमाह-यत इति । अन्येषु= जीवभिन्नेषु । द्रव्यधर्मो द्रव्याधर्मो द्रव्याकाश इत्यादिरपि धर्मास्तिकायादिषु जीवभिन्नेष्वपि भङ्गो न सम्भवत्येवेत्यत उक्तं प्राय इति । तथा च जीवपदं तादृशानामुपलक्षणम् । एतादृशाश्च १. सादिभावस्य पर्यायत्वेन, जीवत्वस्य सादिभावत्वे पर्यायरूपत्वेन, बुद्ध्या पर्यायवियुक्तत्वकल्पनाकाले जीवे
तदपि न स्यादतोऽनादीत्युदितमित्याशयः । २. 'अथवा शून्योऽयं भङ्ग इति वाक्यं 'गुणपर्याय...द्रव्यजीव' इति पूर्ववाक्यस्य विवेचनम् ।