________________
२५४
सटीकजैनतर्कभाषायां कतिपये एवेति तदव्यापकत्वेऽपि नाऽव्यापित्वमित्यभिसन्धिः ।
त=निक्षेपचतुष्टयम् । अत्रैकस्मिन्-जीवपदार्थ एव केवले । न सम्भवतीति । द्रव्यजीवाभावाद् निक्षेपचतुष्टयमिति शेषः । नो भवतीत्यनेनाऽन्वयः । एतावता-जीवेऽसम्भवमात्रेण । वृद्धाः-प्रवचनवृद्धा विशेषावश्यककारादयः, वदन्तीति शेषः ।
जीवेऽपि द्रव्यनिक्षेपः सम्भवत्येवेति वस्तुत एव वस्तुव्यापित्वं निक्षेपचतुष्टयस्य । यः खलु 'जीव प्राणधारणे' इति धातुनिष्पन्नजीवपदस्य प्राणधारणादिरूपव्युत्पत्तिलभ्यमर्थमुपयोगलक्षणं जानाति स, यदा तदुपयोगो न वर्तते तदानीं द्रव्यजीव इति मतमुपदर्शयति
जीवशब्दार्थज्ञः तत्राऽनुपयुक्तो द्रव्यजीव इत्यप्याहुः । तत्र-जीवशब्दार्थे । एतच्चाऽनुपयोगो द्रव्यमित्याश्रित्य । कारणं द्रव्यमित्यवलम्बनेन द्रव्यजीवमुपपादयतां मतमाह
अपरे तु वदन्ति-अहमेव मनुष्यजीवो द्रव्यजीवोऽभिधातव्यः, उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवामि, यतश्चाऽहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति ।
अप्रादुर्भूतं वर्तमानकाले प्रकटीभूतमर्थाद् भविष्यत्काले भाविनम् । उत्तरकालभाविनो देवजीवस्य मनुष्यजीवः कारणमिति कृत्वा मनुष्यजीवो द्रव्यजीवः इत्येतदेव तयोः कार्यकारणसमर्थनेनोपपादयति-अहं हीति ।
अहमित्यनेनैतत्स्वरूपसमर्थनपरा आचार्याः स्वस्याऽ(स्वस्य)विशिष्टसाध्वाचारसेवनपरायणत्वतोऽवश्यमुत्तरकालभाविदेवभवं निर्विचिकित्समवधारयन्त आत्मानमेव परामृशन्ति । आस्तां दृष्टान्तान्तरगवेषणा, मामेव तावद् द्रव्यजीवं जानन्तु भवन्त इति नाऽव्यापिता निक्षेपचतुष्टयस्य । अन्यद् व्यक्तम् ।
एतत् कथितं तैर्भवति-पूर्वः पूर्वो जीवः परस्य परस्योत्पित्सोः कारणमिति ।
एतत्= पूर्वः पूर्व' इत्यादिनाऽनन्तरमेवोपवर्ण्यमानम् । तैः मनुष्यजीवस्य द्रव्यजीवत्वमुपगच्छद्भिराचार्यैः । परस्य परस्येत्यनन्तरं जीवस्येति दृश्यम् ।
अस्मिन् च पक्षे सिद्ध एव भावजीवो भवति, नान्य इति एतदपि नाऽनवद्यमिति तत्त्वार्थटीकाकृतः।
__ अस्मिन् च पक्षे-अनन्तराभिहिताचार्यमते च । सिद्ध एवेति । सिद्धजीवभवनान्तरं