________________
जीवविषयकद्रव्यनिक्षेपः
२५५ पुनरपरजीवभावेन भवनाभावात्, कस्यचिदपि विशिष्टजीवस्य कारणत्वाभावात् सिद्धजीवस्य द्रव्यजीवत्वं न सम्भवतीति स एव भावजीवः ।
मनुष्यादिजीवस्य तु यावद् न सिद्धिः, तावदवश्यमुत्तरकाले विशिष्टजीवभावेन भवनमिति कारणत्वाद् द्रव्यजीवत्वमित्येवकारलभ्यमेव स्पष्टयति-नाऽन्य इति । सिद्धभिन्नजीवो न भावजीव इत्यर्थः ।
इति-एतस्मात् कारणात्, एतदपि-अनन्तरोपदर्शिताचार्यमतमपि, नाऽनवयं-न निर्दुष्टं सिद्धान्यजीवे भावजीव इति निक्षेपस्याऽघटनात्, सिद्धे द्रव्यजीव इति निक्षेपस्याऽघटनात्, तन्निबन्धनाव्यापितादोषसद्भावात् ।
स्वयम्-उक्ताचार्यमते मनुष्यजीवादौ विशिष्टजीवे 'द्रव्यजीव' इति द्रव्यनिक्षेपस्य सम्भवेऽपि, विशेषणा[न]नुरक्ते जीवे 'द्रव्यजीव' इत्येवं द्रव्यनिक्षेपो नैवमुपपादित: स्यात् । निर्विशेषं जीवं प्रति मनुष्यजीवादेरकारणत्वाद्, देवजीवं प्रति मनुष्यजीवस्य कारणत्वेन, 'मनुष्यजीवो द्रव्य[देव]जीव' इत्येवं द्रव्यनिक्षेपाकारो भवेद्, न तु द्रव्यजीव इति । नहि पार्थिवविशेषघटं प्रति कारणस्य मृत्पिण्डस्य द्रव्यघट इति व्यपदेशवद् द्रव्यपार्थिव इति व्यपदेश इति–दोषदुष्टत्वं सङ्गमयिष्यन् तत्त्वार्थटीकाकृदुक्तदोषं तावदादौ परिहरति
इदं पुनरिहाऽवधेयम्-इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः-एकवस्तुगतानां नामादीनां भावाविनाभूतत्वप्रतिपादनात् ।
इह-अनन्तराभिहिताचार्यमतगत-तत्त्वार्थटीकाकृदुक्त-सिद्धमात्रवृत्तिभावजीवत्वप्रसङ्गदोषे । इदम्-इत्थमित्यादिनाऽनन्तरमेव वक्ष्यमाणम् । अवधेयं-सुधिया परिशीलनीयम् । इत्थम् उत्तरोत्तरजीवं प्रति कारणत्वतः । भावत्वाविरोध: भावत्वविरोधाभावोऽर्थात् कारणत्वाद् द्रव्यत्वमप्यस्तु, कार्यापन्नत्वाद् अनादिपारिणामिकजीवत्वादिभावयोगात् प्राणधारणादिमत्त्वाच्च भावत्वमप्यस्तु, नाऽस्त्यत्र कश्चित् प्रतिकूलः तर्कः । एवं च सिद्ध एव भावजीवो, नाऽन्य इति दोषस्य नाऽवकाशः । प्रत्युत शास्त्रे नामादीनामेकवस्तुगतानां भावाविनाभूतत्वप्रतिपादनतो भावत्वाविरोध एव प्रतिपादितोऽस्तीत्याह-एकेति ।
कुत्र प्रतिपादनमित्यपेक्षायामाहतदाह भाष्यकार:"अहवा वत्थूभिहाणं, नाम ठवणा य जो तयागारो ।
कारणया से दव्वं, कज्जावन्नं तयं भावो ॥" (६०) इति । १. षष्ठी निरूपितार्थे । तथाच विशिष्टजीवनिरूपितकारणत्वाभावात् सिद्धजीवस्य न द्रव्यजीवत्वमित्यर्थः ।