________________
२५६
सटीकजैनतर्कभाषायां
( अथवा वस्त्वभिधानं, नाम स्थापना यस्तदाकारः । कारणत्वमस्य द्रव्यं, कार्यापन्नं तकं भावः ॥ )
तत्र स्वाभिमतं दोषमुद्भावयति
केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्याद्, मनुष्यादेर्देवत्वादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं नयरहस्यादौ विवेचितमस्माभिः ॥
एतत्स्वरूपविशेषजिज्ञासुभिरस्मन्निर्मितनयरहस्यादिकमवलोकनीयम् । ग्रन्थगौरव
I
भयाद् नेह तद्विशेषविचारः प्रतन्यते इत्याशयेनाऽऽह-अधिकमिति ।