________________
॥ टीकाकर्तुः प्रशस्तिः ॥
स्वपरसमयविज्ञो जैनसिद्धान्तनिष्ठः, प्रमितिनयविदग्धः सर्वनिक्षेपक्षः । मतमननप्रवीणो नव्यनिर्माणकर्त्ता,
क्व नु सकलयशः श्रीः श्रीयशोनामधेयः ॥ १॥ ( मालिनी)
क्व च विगतमतिश्रीनतिमात्रे विषण्णो,
निजपरमतबोधे हीनबुद्धिश्च मादृक् । अनुभवतु तथापि पृष्ठतःकृत्य मूलानुगमनसुमहिम्नाऽऽदेयतामेष ग्रन्थः ॥ २॥ स्खलनमिह विचारे यद् भवेत् तत्त्वदृष्ट्यां, परकृतिमननार्थाः शोधयिष्यन्ति तत्तु । न हि भवति नियोगस्तान् प्रतीत्थं कदापि, न रविरुदयमेति प्रेरितोऽन्यस्य वाक्यैः ॥३॥ उपकृतिरपरस्याऽप्यस्तु मा वाऽस्त्वमुष्माद्, मम मननमवश्यम्भावि चाऽतो विचारात् । भवति सफल एवं श्रीगुरोर्नेमिसूरेश्चरणकमलपूजासम्बसादोः क्षयार्थः (? लम्बनाद् दोः क्षयार्थः) ॥४॥ देशे गुर्जरनाम्नि राजनगरे लक्ष्मीभृतामास्पदे, पाडापोलसुनामचारुविदिते तद्ग्रामभागेऽभवत् । श्रीप्राग्वाटकुलीन - शाहअमथालालेतिनामा सुधीः,
सुश्राद्धः समुपात्तयोग्यविभवो धर्मक्रियातत्परः ॥५॥ ( शार्दूलविक्रीडितम्)
पुत्रौ तस्य बभूवतुर्बुधवरौ धर्मैकनिष्ठौ परः, श्रीमान् गोकुलदासनामविदितः पाश्चात्त्यविद्यैकभूः । अन्यस्त्रीकमलालनामगदितो यो दाक्तरश्चैम डी गत्वा देशममेरिकादिकमतो लब्धप्रतिष्ठोऽभवत् ॥६॥ श्रीसूरीश्वरनेमिसूरिनिकटे दीक्षां प्रपद्याऽग्रजः, कश्चित्कालमुपास्य देवगतिको जातः सुभद्रो मुनिः ।