________________
जीवविषयकद्रव्यनिक्षेपः
२५१ देवतादिप्रतिमा च स्थापनाजीवः, औपशमिकादिभावशाली च भावजीव इति जीवविषयं निक्षेपत्रयं सम्भवति, न तु द्रव्यनिक्षेपः।
तत्र निक्षेपचतुष्टये । जीवस्य चेतनावतः, अजीवस्य चेतनारहितस्य, सचेतनावान् अचेतनो वा । देवतादीत्यादिपदाद् मनुष्यादेरुपग्रहः । औपशमिकादीत्यादिपदात् क्षायिकक्षायोपशमिकौदयिकपारिणामिकानां ग्रहणम् ।
____ अत्र देवतादिपदेन 'देवतादिशरीरगतजीवस्य ग्रहणम्, अन्यथा देवतादिशरीरस्य जीवसम्भिन्नत्वमाश्रित्य तत्प्रतिमायां स्थापनाजीवत्वे, तच्छरीरकारणस्य द्रव्यजीवत्वमपि स्यादिति द्रव्यजीवासम्भवप्रतिपादनमसङ्गतं स्यात् । अत एव तत्त्वार्थे- "यः काष्ठपुस्तकचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवः देवतादिप्रतिकृतिवद्, इन्द्रो रुद्रः स्कन्दो विष्णु"रित्यसद्भूतस्थापनैव जीवस्य दर्शिता । देवतादिप्रतिकृतिवदिति तु यथा देवतादिप्रतिकृतिर्देवतादिस्थापना तथेत्यर्थकम् । देवतादिप्रतिमाया एव स्थापनाजीवत्वे तस्य दार्खान्तिकत्वतो दृष्टान्तता न स्यादिति बोध्यम् । (तत्त्वार्थभाष्य १.५)
द्रव्यनिक्षेपस्य जीवविषये कथं न सम्भव इत्यपेक्षायामाह
अयं हि तदा सम्भवेत्, यद्यजीवः सन् आयत्यां जीवोऽभविष्यत्, यथाऽदेवः सन् आयत्यां देवो भविष्यन् द्रव्यदेव इति । न चैतदिष्टं सिद्धान्ते-यतो जीवत्वमनादिनिधनः पारिणामिको भाव इष्यते इति ।
अयं-द्रव्यजीव इत्याकारकः प्रकृते द्रव्यनिक्षेपः, हि-यतः । अजीवः सन्=पूर्वकाले उपयोगलक्षणचेतनारहितः सन्, आयत्याम् आगामिकाले, जीवोऽभविष्यत्-चेतनावान् स्यात् । तदोत्तरकालभाविभावजीवकारणत्वेन पूर्वमचेतनतया व्यवस्थितस्य द्रव्यत्वमिति कृत्वा द्रव्यजीव इति द्रव्यनिक्षेपः सम्भवेत् ।
भवतु, एवमेवाऽभ्युपगमे का हानिरित्यत आह-न चैतदिष्टमिति । पूर्वमजीवस्य सत उत्तरकाले जीवत्वमुपजायते इत्येतद् जैनराद्धान्ते नाऽभ्युपगतम् । एतदेव कुतो ज्ञातं भवतेत्यत आह-यत इति । अनादिनिधनः-स्वत उत्पत्तिविनाशरहितः, सदातन इति यावत् ।
१. इदमत्र तत्त्वम्-देवतादिशरीप्रतिमा यथा स्थापनादेवताधुच्यते तथा देवतादिशरीरं जीवसम्भिन्नमिति कृत्वा सा
प्रतिमा स्थापनाजीव इत्यपि वक्तुं शक्यते एव । तथा च 'देवतादिप्रतिमा स्थापनाजीव' इति कथनमपि युक्तमेव । परमेवमभ्युपगमे देवतादिशरीरोपादानस्य पुद्गलादेर्द्रव्यजीवत्वमपि स्याद्-देवतादिशरीरस्य भावजीवत्वेनाऽभिमतत्वाद् । एवं सति 'जीवविषयं निक्षेपत्रयं सम्भवति, न तु द्रव्यनिक्षेप' इति वचनमयुक्तं भवेदिति 'देवतादिप्रतिमे'त्यनेन देवतादिशरीरगतजीवप्रतिमाऽसद्भतस्थापनारूपा ग्रहीतव्या ।