________________
२५०
सटीकजैनतर्कभाषायां सङ्ग्रहिकः, न ततः सङ्ग्रहस्य स्थापनेच्छा निषिध्यते (विधीयते) तर्हि एकत्र सन्धित्सतोऽन्यत्र प्रच्यवते । एवं हि सति व्यवहारोऽपि स्थापनां किं नेच्छति ? कुतः ? असङ्ग्रहिकनैगमसमानधर्मा व्यवहारनयोऽपि वर्तते विशेषवादित्वात्, ततश्चैषोऽपि स्थापनामिच्छेदेवेति निषिद्धा चाऽस्याऽपि त्वया । अथ परिपूर्णो नैगमः स्थापनामिच्छति, न तु सङ्ग्रहिकोऽसङ्ग्रहिको वेति भेदवान्, अतः तदृष्टान्तात् सङ्ग्रहव्यवहारयोर्न स्थापनेच्छा साधयितुम् । अत्रोच्यते-तहि नैगमसमानधर्माणौ द्वावपि समुदितौ सङ्ग्रहव्यवहारौ युक्तावेव । इदमत्र हृदयम्तर्हि प्रत्येकं तयोरेकतरनिरपेक्षयोः स्थापनाभ्युपगमो मा भूदिति समुदितयोः तयोः सम्पूर्ण गमरूपत्वात् तदभ्युपगमः केन वार्यते ? अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकताग्रहणा"दिति । (विशेषा० बृ०गा० २८५२-३) ।
किञ्च सङ्ग्रहव्यवहारयोरित्यादिना दर्शिताया युक्तेः तत्रैवं प्ररूपणा-"इदमुक्तं भवतियथा विभिन्नयोः सङ्ग्रहव्यवहारयो गमोऽन्तर्भूतः तथा स्थापनाभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेव । ततो भिन्नं भेदेन तौ तदिच्छत एव, स्थापनासामान्यं सङ्ग्रह इच्छति, स्थापनाविशेषांस्तु व्यवहार इत्येतदेव युक्तम्, तदनिच्छा तु सर्वथाऽनयोर्न युक्ते "ति । (विशेषा० बृ०गा० २८५४)
जीवविषयकद्रव्यनिक्षेपस्य चर्चा एतैश्च नामादिनिक्षेपैर्जीवादयः पदार्था निक्षेप्याः ।
नामस्थापनाद्रव्यभावनिक्षेपानां वस्तुमात्रगतत्वं समर्थयिष्यन् ग्रन्थकारो द्रव्यनिक्षेपभिन्नानां त्रयाणां निक्षेपानां जीवे सम्भवेऽपि, द्रव्यनिक्षेपस्य न तत्र सम्भव इति कथं निक्षेपचतुष्टयस्य वस्तुत्व(त्वा)व्यापकत्वमिति तावदादावाह
तत्र यद्यपि यस्य जीवस्याऽजीवस्य वा जीव इति नाम क्रियते स नामजीवः,
'तत्र यद्यपि यस्य'-"चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः, यः काष्ठ-पुस्त-चित्रकर्मा-ऽक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवः, देवताप्रतिकृतिवत् इन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव इत्युच्यते । अथवा शून्योऽयं भङ्गः । यस्य हि अजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात् अनिष्टं चैतत् । भावतो जीवः औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विधा वक्ष्यन्ते ।"तत्त्वार्थभा० १.५, तत्त्वार्थभा० वृ० १.५.
सुखादिना सुखान्तेन लालान्तेन दिलादिना । महेन्द्रेण च सम्भूय कृतिरेषा समापिता ॥