________________
निक्षेपनयसंयोजना
२४९ अत्र यद्यपि सङ्ग्रहव्यवहारयोर्मध्ये सामान्यमात्रावगाहिनो नैगमस्य सङ्ग्रहे, विशेषमात्रावगाहिनो नैगमस्य च व्यवहारेऽन्तर्भावाद् नैगममतमपि सङ्ग्रहव्यवहारमतयोरन्तर्भूतमेवेति व्याख्यानं सम्भवति, तथापि तथा व्याख्याने-सङ्ग्रहव्यवहारयोः स्थापनावर्जने नैगमेऽपि स्थापनावर्जनस्य प्राप्तत्वात्, सङ्ग्रहव्यवहारयोरन्यत्र द्रव्याथिके स्थापनाभ्युपगमावर्जनादिति पूर्वग्रन्थो न सङ्गतो भवेदिति न तथा व्याख्यातम् । .
तन्मतमपि सङ्ग्रहव्यवहारमतमपि (नैगममतमपि ?) । तत्र स्थापनाभ्युपगमलक्षणनैगममते (सङ्ग्रहव्यवहारयोः ?) । उभयधर्मलक्षणस्य विषयस्य-नैगमे विषयीभूतस्य सामान्यविशेषोभयात्मकस्थापनाभ्युपगमस्य प्रत्येक व्यवहारविषयीभूते विशेषात्मकस्थापनाभ्युपगमे, सङ्ग्रहविषयीभूते सामान्यात्मकस्थापनाभ्युपगमे, अप्रवेशेऽपि-तयोरेकैकमात्राभ्युपगम[म?]त्त्वतः सामान्यविशेषोभयाभ्युपगन्तृत्वाभावात् सामान्यविशेषोभयात्मकस्थापनाभ्युपगमत्वेन रूपेण नैगममतमात्रवृत्तिना तदभिन्नतालक्षणप्रवेशासम्भवेऽपि, स्थापनालक्षणस्यैकधर्मस्य-सामान्यात्मकस्थापनाऽपि स्थापना भवति, विशेषात्मकस्थापनाऽपि स्थापना भवत्येवेति कृत्वा स्थापनाभ्युपगम[मत्?] त्वं नैगममते सङ्ग्रहमते व्यवहारमते चाऽविशिष्टमिति तद्रूपस्य प्रवेशस्य, सूपपादत्वात् स्थापनाभ्युपगमलक्षणे सङ्ग्रहव्यवहारमतेनैगममतात्मके-स्थापनाभ्युपगमत्वात्-तथाविधनैगममतवदित्येवमुपपादयितुं शक्यत्वात् ।
___ स्थापनाभ्युपगमत्वलक्षणसाधारणधर्मेण [सङ्ग्रहव्यवहारयोरैक्येऽपि] स्थापनासामान्याभ्युपगमत्व-स्थापनाविशेषाभ्युपगमत्वलक्षणस्वस्वासाधारणधर्मेण भेदोऽप्यन्योन्यमुपपद्यते इत्याह-स्थापनासामान्येति । तद्विशेषेति-स्थापनाविशेषेति ।
न चैषा स्वमनीषा, किन्त्वागमप्ररूपणैवेत्याह-यथागममिति । आगममनतिक्रम्येत्यर्थः । न चेयमुक्तिः समानानुपूर्व्या आगमे दृश्यते इत्यत आह-भावनीयमिति । आगमनिष्णातैः सुधीभिरिति शेषः । तथा चाऽऽगमार्थविचारणया भङ्गयन्तरेणाऽऽगमोक्तमेवैतदिति सुधियां बुद्धिमधिरोहतीति ।
तद् नाऽनवद्यमित्यादिनाऽत्र दर्शिता सङ्ग्रहव्यवहारयोः स्थापनाभ्युपगमप्रक्रिया विशेषावश्यके इत्थं दृश्यते-"तत् परिहरन् आह-इह सङ्ग्रहिकोऽसङ्ग्रहिकः सर्वो वा नैगमः तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र-सङ्ग्रहिकः सङ्ग्रहमतावलम्बी सामान्यवादीत्यर्थः, असङ्ग्रहिकस्तु व्यवहारनयमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः ।
___ "ततश्च यदि सङ्ग्रहमतावलम्बी नैगमः स्थापनामिच्छति तर्हि सङ्ग्रहः तत्समानमतोऽपि तां किं नेच्छति ? इच्छेदेवेत्यर्थः । अथ यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपत्तेरसङ्ग्रहिकोऽसौ तामिच्छतीति प्रतिपत्तव्यम्, न