________________
२४८
सटीकजैनतर्कभाषायां एवं च यदि सामान्यमात्रग्राही नैगमः स्थापनामिच्छति, कथं तर्हि सामान्यमात्रग्राहित्वेन तदविशिष्टः सङ्ग्रहः स्थापनां नाऽभ्युपेयात् ? एवं यदि विशेषमात्रग्राही नैगमः स्थापनां स्वीकरोति, कथं विशेषमात्रग्राहित्वेन तदविशिष्टो व्यवहारो न स्थापनां स्वीकुर्याद् ? तथा सामान्यविशेषोभयग्राही नैगमो यदा स्थापनाभ्युपगन्ता, तदा निरपेक्षयोः सङ्ग्रहव्यवहारयोः सामान्यविशेषोभयग्राहित्वाभावात् तदविशिष्टत्वाभावात् तदृष्टान्तावष्टम्भेन स्थापनाभ्युपगन्तृत्वस्य साधयितुमशक्यत्वेऽपि, परस्परसापेक्षत्वेन समुदितरूपयोः सङ्ग्रहव्यवहारयोः परिपूर्णनैगमरूपत्वसम्भवतः स्थापनाभ्युपगन्तृत्वं स्यादेवेत्याह-यतः सङ्ग्रहिक इति । नैगमः स्थापनामुपगच्छतीति कथमभ्युपेयमित्याकाङ्क्षायामाह-सङ्ग्रहव्यवहारयोरन्यत्रेति । सङ्ग्रहव्यवहाराभिन्ने द्रव्यार्थिकनये स्थापनाभ्युपगमवर्जनस्याऽभावात्-'सङ्ग्रहव्यवहारौ स्थापनावर्जा'नित्युक्त्या सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवता कृतत्वादित्यर्थः ।
ननु नैगमस्य स्थापनाभ्युपगन्तृत्वेऽपि प्रकृते किमायातमित्यत आह-तत्रेति । तत्र नैगमस्य स्थापनाभ्युपगमे सति । आद्यपक्षे-सङ्ग्रहिको नैगमः स्थापनामभ्युपगच्छतीति पक्षे । द्वितीये असङ्ग्रहिको नैगमः स्थापनामभ्युपगच्छतीति पक्षे । तदभ्युपगमप्रसङ्ग स्थापनाभ्युपगमप्रसङ्गः । तन्मतस्य-असङ्ग्रहिकनैगमनयमतस्य । तृतीये च-सामान्यविशेषोभयग्राही यः परिपूर्णो नैगमः, स स्थापनामभ्युपगच्छतीति पक्षे च । समुदितयोरित्यनन्तरं सङ्ग्रहव्यवहारयोरिति सम्बद्ध्यते । तदभ्युपगमस्य-स्थापनाभ्युपगमस्य । अविभागस्थात् सम्पूर्णात् । प्रत्येकम्-समुदितयोः सङ्ग्रहव्यवहारयोरेकैकेन पृथक्सङ्ग्रहेण पृथग्व्यवहारेण । तदेकैकभागग्रहणात् नैगमैकभागस्य सामान्यग्राहित्वस्य सङ्ग्रहेण, नैगमैकभागस्य विशेषग्राहित्वस्य च व्यवहारेण ग्रहणात्-स्वधर्मतयाऽऽश्रयणादिति ।
अपि च नैगमस्य यः सामान्यावगाहनलक्षणो भागः स एव [सङ्ग्रहः, यश्च विशेषावगाहनलक्षणो भागः स एव] व्यवहार-इत्येवं सङ्ग्रहव्यवहारौ नैगमान्तर्भूतावेव । एवञ्च नैगमस्य यद् मतम्, तन्मतान्तर्गतमेव सङ्ग्रहव्यवहारयोरपि [मतमिति तयोः] मते स्थापनाभ्युपगमोऽस्तीत्यायातमेवेति तत्र तद्वर्जनं न युक्तमित्याह
किञ्च, सङ्ग्रहव्यवहारयो गमान्तर्भावात् स्थापनाभ्युपगमलक्षणं तन्मतमपि तत्राऽन्तर्भूतमेव, उभयधर्मलक्षणस्य विषयस्य प्रत्येकमप्रवेशेऽपि स्थापनालक्षणस्यैकधर्मस्य प्रवेशस्य सूपपादत्वात्, स्थापनासामान्य-तद्विशेषाभ्युपगममात्रेणैव सङ्ग्रहव्यवहारयोर्भेदोपपत्तिरिति यथागमं भावनीयम् ।
"किञ्च'-अत्र रत्नप्रभायामुल्लिखितः (पृष्ठ २५०) 'इदमुक्तं भवति...' इति भाष्यपाठ: समस्ति।