________________
निक्षेपनयसंयोजना
२४७
तावद् नाम निर्विवादमिच्छति । तच्च नाम इन्द्रादिसञ्ज्ञामात्रं वा भवेद् इन्द्राद्यर्थरहितं गोपालदारकादि वस्तु भवेदिति द्वयी गतिः । इदं चोभयरूपमपि नाम भावकारणमिति कृत्वा इच्छन् असावृजुसूत्रो द्रव्यस्थापने कथं नाम नेच्छेत् ? भावकारणत्वाविशेषादिति भावः । अथेन्द्रादिकं नाम भावेऽपि भावेन्द्रेऽपि सन्निहितमस्ति, तस्मादिच्छति तद् ऋजुसूत्र:, तर्हि जितमस्माभिः - तस्य न्यायस्य द्रव्यस्थापनापक्षे सुलभतरत्वात् । तथाहि - द्रव्यस्थापने अपि भावस्येन्द्रपर्यायस्याऽऽसन्नतरौ हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति । एतदुक्तं भवति - इन्द्रमूर्त्तिलक्षणं द्रव्यम्, विशिष्टतदाकाररूपा तु स्थापना - एते द्वे अपि इन्द्रपर्यायस्य तादात्म्येनाऽवस्थितत्वात् सन्निहिततरे, शब्दस्तु नामलक्षणो वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद् बाह्यतर इति । अतो भावे सन्निहितत्वाद् नामेच्छन् ऋजुसूत्रो द्रव्यस्थापने सन्निहिततरत्वात् सुतरामिच्छेदिति ।" (विशेषा० बृ० २८५० - १)
एतावता ऋजुसूत्रस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वं निष्टङ्कितम् । अथ सङ्ग्रहव्यवहारयोः तत्साधनायोपक्रमः । तत्र सङ्ग्रहव्यवहारौ स्थापनां नाऽभ्युपगच्छत इति केषाञ्चिद् मतं प्रतिक्षेप्तुमुपन्यस्यति
सङ्ग्रहव्यवहारौ स्थापनावर्जान् त्रीन् निक्षेपानिच्छत इति केचित्, तद् नाऽनवद्यम् । त्रीन्=नामद्रव्यभावान् । तद् नाऽनवद्यम् = उक्तमतं न निर्दुष्टम् । तत्र हेतुमाह
यतः सङ्ग्रहिकोऽसङ्ग्रहिकोऽनर्पितभेदः परिपूर्णो वा नैगमः तावत् स्थापनामिच्छतीत्यवश्यमभ्युपेयम् - सङ्ग्रहव्यवहारयोरन्यत्र द्रव्यार्थिके स्थापनाभ्युपगमावर्जनात् । तत्राऽऽद्यपक्षे सङ्ग्रहे स्थापनाभ्युपगमप्रसङ्गः- सङ्ग्रहनयमतस्य सङ्ग्रहिकनैगममताविशेषात् । द्वितीये व्यवहारे तदभ्युपगमप्रसङ्गः- तन्मतस्य व्यवहारमतादविशेषात् । तृतीये च निरपेक्षयोः सङ्ग्रहव्यवहारयोः स्थापनानभ्युपगमोपपत्तावपि समुदितयोः सम्पूर्ण - नैगमरूपत्वात् तदभ्युपगमस्य दुर्निवारत्वम्-अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकभागग्रहणात् ।
नैगमो नयः त्रिविधः-सङ्ग्रहिकासङ्ग्रहिकसर्वभेदात् । तत्र - सङ्ग्रहिकः सङ्ग्रहमतावलम्बी, सामान्यमात्रग्राहीति यावत् । असङ्ग्रहिको व्यवहारमतावलम्बी, विशेषमात्रग्राहीति यावत् । सर्वोऽनर्पितभेदः परिपूर्णः सामान्यविशेषोभयग्राहीति यावत् । स च नैगमः स्थापनामभ्युपगच्छतीति भवतोऽपि सम्मतं - सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवताऽभिधानात् ।
'तन्नाऽनवद्यम्'' - अत्र रत्नप्रभायामुल्लिखित: (पृष्ठ २४९) 'तत् परिहरन् ०' इति भाष्यपाठः समस्ति ।