________________
२४६
सटीकजैनतर्कभाषायां नेच्छेत् ? न हि दृष्टेऽनुपपन्नं नामेति ।
कथमित्यस्य नेच्छेदित्यनेन सम्बन्धः । अयम्-ऋजुसूत्रः । पिण्डावस्थायामनाकारमपि सुवर्णं भविष्यत्कुण्डलादिलक्षणभावकारणत्वात् यद्यैतन्मते द्रव्यम्, तदा विशिष्टेन्द्राधभिलापहेतुभूता साकारैन्द्रादिप्रतिमैतन्मते कथं न भवेदिति समुदितार्थः । कथं नेच्छेदित्यस्येच्छेदेवेत्यर्थः । नाऽदृष्टचरीयं कल्पना येन प्रमाणवीथीं नाऽवतरेदपि-प्रत्यक्षप्रमाणादेव चेत्थमवधार्यते इति नाऽनुपपन्नत्वसङ्कथाऽपीत्याह-न हीति ।
प्रकारान्तरेण स्थापनाभ्युपगन्तृत्वम् ऋजुसूत्रस्य व्यवस्थापयति
किञ्च, इन्द्रादिसञ्जामानं तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारणत्वाविशेषात् कुतो द्रव्यस्थापने नेच्छेत् ? प्रत्युत सुतरां तदभ्युपगमो न्याय्यःइन्द्रमूर्तिलक्षणद्रव्य-विशिष्टतदाकाररूपस्थापनयोरिन्द्रपर्यायरूपे भावे तादात्म्यसम्बन्धेनाऽवस्थितत्वात्, तत्र वाच्यवाचकभावसम्बन्धेन सम्बद्धाद् नाम्नोऽपेक्षया सन्निहिततरकारणत्वात् ।
तदर्थरहितम् इन्द्रार्थरहितम् । अयम्-ऋजुसूत्रः । भावकारणत्वाविशेषाद्= भावोल्लासकारणत्वस्य द्रव्यस्थापनयोः साधारण्यात् । कुतो द्रव्यस्थापने नेच्छेदित्युक्तिभङ्ग्या द्रव्यस्थापने इच्छेदेवेत्यर्थतो लब्धमपि स्पष्टप्रतिपत्त्यर्थमाह-प्रत्युतेति । प्रत्युत-अपितु, सुतराम्= अवश्यमेव, तदभ्युपगमः ऋजुसूत्रनये नामाभ्युपगमवत् द्रव्य-स्थापनाभ्युपगमनाभ्युपगमोऽपि न्याय्यः न्यायादनपेतः ।
नाम इन्द्रपर्यायस्वरूपभावे वाच्यवाचकभावलक्षणसम्बन्धेनाऽवस्थितम्, द्रव्यस्थापने तु तत्र तादात्म्यसम्बन्धेनाऽवस्थिते इति भावोल्लासे नामापेक्षया सन्निहिततरकारणत्वाद्, यदि भावोल्लासे विप्रकृष्टकारणस्याऽपि नाम्नोऽभ्युपगमः, किमिति सन्निहिततरकारणयोर्द्रव्यस्थापनयोरभ्युपगमो न भवेद्, अपि तु भवेदित्येव न्यायादनपेततां न्यायप्राप्तत्वं स्पष्टमाचष्टे-इन्द्रमूर्तीति । पूर्वापरपर्यायानुगामित्वाद् इन्द्रस्य सहस्राक्षाद्यवयवावगुण्ठितविग्रह इन्द्रमूर्तिलक्षणद्रव्यम्, तस्यैव विशिष्टो-विलक्षणो यथावदानुपूर्व्याकलितावस्थानाकलितः तदाकार:-इन्द्रशरीराकारोऽवयवसन्निवेशः तद्रूपा स्थापना, तयोरित्यर्थः । तत्र-इन्द्रपर्यायरूपभावे ।
किञ्चेत्यादिना यदत्र ऋजुसूत्रद्रव्यस्थापनाभ्युपगमप्रत्यलयुक्त्युपदर्शनम्, तद् इत्थं विशेषावश्यके- "उपपत्त्यन्तरेणाऽपि द्रव्यस्थापनेच्छामस्य साधयन् आह-ननु ऋजुसूत्रः
"किञ्च'-अत्र रत्नप्रभायामुल्लिखित 'उपपत्त्यन्तरेणाऽपि' इति भाष्यपाठः समस्ति ।