________________
२४५
निक्षेपनयसंयोजना
ननु नैगमसङ्ग्रहव्यवहाराणां निक्षेपचतुष्टयाभ्युपगन्तृत्वं भवतु नाम, ऋजुसूत्रस्तु पर्यायाभ्युपगन्ता द्रव्यं नेच्छत्येव, नाऽपि स्थापनाम्, किन्तु नामभावनिक्षेपावेवाऽभ्युपगच्छतीत्यविशेषेण नैगमादिनयैः सह ऋजुसूत्रस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वाभिधानं न युक्तमिति नाऽऽशङ्कनीयं-नामभावनिक्षेपावेवेच्छति ऋजुसूत्र इति परेषां मतम्, न तु सूत्रानुयायिनां-सूत्रे ऋजुसूत्रस्य द्रव्याभ्युपगन्तृतया भणनादित्याशयेनाऽन्येषां मतं प्रतिक्षेप्तुपन्यस्यति
ऋजसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तन्न, ऋजुसूत्रेण द्रव्याभ्युपगमस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइत्ति ॥" [अनु० सू० १४] (ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकं द्रव्यावश्यकम्, पृथक्त्वं नेच्छत्यसौ ।)
अनेन वर्तमानमेव वस्तूपेयते, नाऽतीतानागते, नाऽपि परकीयम्, किन्तु स्वगतमेवेति, अतीतानागतभेदापेक्षया परकीयभेदापेक्षया च पृथक्त्वाभ्युपगमस्य-पार्थक्याभिसन्धेः परंकेवलम्, निषेधात्-तत्र नाऽस्तीति सूत्रे प्रतिपादनात् । ऋजुसूत्रस्य द्रव्याभ्युपगन्तृत्वमस्ति, पृथक्त्वाभ्युपगमो नाऽस्तीत्युपदर्शकमनुयोगद्वारसूत्रमुपदर्शयति-उज्जुसुअस्स इति ।
___एतद्व्याख्यानं यथा-"ऋजु-अतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयतिअभ्युपगच्छतीति ऋजुसूत्रः । अयं हि वर्तमानकालभाव्येव वस्तूपगच्छति । नाऽतीतं-विनष्टत्वात् । नाऽप्यनागतम्-अनुत्पन्नत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते-स्वकार्यसाधकत्वात्, स्वधनवत् । परकीयं तु नेच्छति-स्वकार्याप्रसाधकत्वात्, परधनवत् । तस्मादेको देवादत्तादिरनुपयुक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति । पुहत्तं नेच्छइत्ति-अतीतानागतभेदतः परकीयभेदतश्च पृथक्त्वं=पार्थक्यं नेच्छत्यसौ । किं तर्हि ? वर्तमानकालीनं स्वगतमेव चाऽभ्युपैति, तच्चैकमेवेति भावः ।" इति ।
एतावता द्रव्यनिक्षेपाभ्युपगन्तृत्वम् ऋजुसूत्रस्य व्यवस्थापितम् । अथ स्थापनाभ्युपगन्तृत्वव्यवस्थापनायाऽऽह
कथं चाऽयं पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षणभावहेतुत्वेनाऽभ्युपगच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकारामिन्द्रादिस्थापनां
'उज्जुसुअस्स'-अत्र रत्नप्रभायामुद्धृत 'ऋजु-अतीतानागत०' इति टीकापाठ एव समस्ति।
'कथं चाऽयं'-"इदमुक्तं भवति-यो ह्यनाकारमपि भावहेतुत्वात् द्रव्यमिच्छति ऋजुसूत्रः स साकारामपि विशिष्टेन्द्रादिभावहेतुत्वात् स्थापनां किमिति नेच्छेत् ? इच्छेदेव नात्र संशयः ।"विशेषा० बृ० गा० २८४९ ।