________________
२४४
सटीकजैनतर्कभाषायां "नामाइतियं दव्वट्ठियस्स, भावो अपज्जवणयस्स । संगहववहारा पढमगस्स, सेसा उ इयस्स ॥ (७५)" इत्यादिना विशेषावश्यके । (नामादित्रिकं द्रव्यार्थिकस्य, भावश्च पर्यवनयस्य । सङ्ग्रहव्यवहारौ प्रथमस्य, शेषास्त्वितरस्य ॥).. द्वितीयस्य पर्यायास्तिकनयस्य । तत्प्रतिपादनपरा सम्मतिगाथा चेयम्"मूलणिभेण पज्जवणयस्स, उज्जुसुअवयणविच्छेओ । तस्स उ सद्दाईआ, साहपसाहा सुहुमभेआ ॥" इति । (१-५) (मूलमात्रं पर्यवनयस्य, ऋजुसूत्रवचनविच्छेदः । । तस्य तु शब्दादिकाः, शाखाप्रशाखाः सूक्ष्मभेदाः ॥)
एतन्निर्गलितार्थो यथा टीकायां-"पर्यायनयस्य प्रवृत्तिराद्या ऋजुसूत्रः, सा त्वशुद्धा, शब्दः शुद्धा, शुद्धतरा समभिरूढः, अत्यन्तशुद्धा त्वेवम्भूतः" इति । इत्याचार्येति । उक्तस्वरूपं यद् आचार्यसिद्धसेनमतम्, तदनुसारेणेत्यर्थः । नामादित्रिकं द्रव्यार्थिकानुमतमिति तु सिद्धसेनमतं
"नामं ठवणा दविएति एस दव्वट्ठियस्स णिक्खेवो । भावो उ पज्जवट्ठियस्स, परूवणा एस परमत्थो ॥" इत्यनया गाथया ज्ञायते । (नाम स्थापना द्रव्यमित्येष द्रव्यार्थिकस्य निक्षेपः । भावस्तु पर्यायार्थिकस्य, प्ररूपणा एष परमार्थः ॥)
ननु 'नामादिनिक्षेपत्रयं द्रव्यार्थिकस्य, भावनिक्षेपः पर्यायार्थिकस्ये'त्यभिहितं यत् पूज्यैः, तद् यदि सिद्धसेनमतानुसारेण, तर्हि पूज्यमते कीदृशी तद्व्यवस्थेत्यपेक्षायामाह
स्वमते तु नमस्कारनिक्षेपविचारस्थाने"भावं चिय सद्दणया, सेसा इच्छन्ति सव्वणिक्खेवे ॥" ।
(भावं चैव शब्दनयाः, शेषा इच्छन्ति सर्वनिक्षेपान् ।) इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद् भावमेवेच्छन्ति, ऋजुसूत्रादयस्तु चत्वारः चतुरोऽपि निक्षेपानिच्छन्तिअविशुद्धत्वादित्युक्तम्।
स्वमते तु जिनभद्रगणिक्षमाश्रमणमते पुनः । त्रयः शब्दसमभिरूद्वैवम्भूताख्याः । ऋजुसूत्रादयः-ऋजुसूत्रनैगमसङ्ग्रहव्यवहाराः । नैगमादय इति वक्तव्ये यदेवमभिधानं तद् ऋजुसूत्रस्य द्रव्यार्थिकत्वस्पष्टप्रतिपत्तये । चतुरोऽपि नामस्थापनाद्रव्यभावानपि ।