________________
२४३
निक्षेप-नयसंयोजना
आद्यस्य भेदौ सङ्ग्रहव्यवहारीनैगमनयस्य तद्भेदतया पृथगनभिधाने हेतुं दर्शयतिनैगमस्य यथाक्रमं सामान्यग्राहिणो विशेषग्राहिणश्चाऽनयोरेवाऽन्तर्भावात् ।
अनयो:-सङ्ग्रहव्यवहारयोः, अत्र यथाक्रममिति सम्बध्यते । तथा च 'सामान्यग्राहिणो नैगमस्य सङ्ग्रहेऽन्तर्भावाद्, विशेषग्राहिणो नैगमस्य व्यवहारेऽन्तर्भावाद् न पृथक्तयाऽभिधानमतो द्रव्यास्तिकस्य सङ्ग्रहव्यवहाराभ्यां द्वैविध्यं सिद्धसेनमते युक्तमेवेति भावः । तद्वैविध्यप्रतिपादनपरा श्रीसिद्धसेनगाथा सम्मतिविषया
"दव्ववियनयपयडी, सुद्धा संगहपरूवणाविसओ । पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो ॥" (१-४) (द्रव्यास्तिकनयप्रकृतिः, शुद्धा सङ्ग्रहप्ररूपणाविषयः ।
प्रतिरूपं पुनः वचनार्थनिश्चयस्तस्य व्यवहारः ॥) एतन्निर्गलितार्थः टीकायाम्-"अत्र च सङ्ग्रहनयः शुद्धो द्रव्यास्तिकः, व्यवहारनयस्त्वशुद्ध" इति । एतेन द्रव्यास्तिकस्य सङ्ग्रहव्यवहाराभ्यां द्वैविध्यं तदनुमतं स्पष्टं प्रतीयते ।
नयनिरूपणावसरे ‘पर्यायार्थिकः चतुर्धे'ति यद् उक्तम्, तत् सिद्धसेनमतमेवाऽवलम्ब्य । तत्रैव 'ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणा' इत्यनेन तन्मते पर्यायास्तिकस्य त्रैविध्यमेव ज्ञायते । परं चातुर्विध्याभिधाने 'आचार्यसिद्धसेनमते' इत्युल्लेखाभावाद् न स्पष्टप्रतीतिरत आह
ऋजुसूत्रादयश्च चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाऽभिहितं जिनभद्रगणिक्षमाश्रमणपूज्यपादैः
"ननु नया नैगमादयः प्रसिद्धाः ततस्तैरेवाऽयं विचारो युज्यते । अथ तेऽत्रैव द्रव्यपर्यायास्तिकनयद्वयेऽन्तर्भवन्ति, तर्युच्यतां कस्य कस्मिन्नन्तर्भावः ? इत्याशङ्क्याह"-विशेषा० गा० ७५.-'नैगमस्य' इति ।
१. नैगमस्य परस्परविशकलितसामान्यविशेषाभ्युपगमान्न प्रमाणत्वम् । २. अयमत्र विभाग:-आचार्यश्रीसिद्धसेनमते सङ्ग्रहव्यवहारौ (नैगमस्याऽनयोरेवाऽन्तर्भाव:) द्रव्यार्थिकभेदौ ।
ऋजुसूत्रादयश्चत्वारः पर्यायार्थिकाः । द्रव्यार्थिको आद्यनिक्षेपत्रयमेवेच्छतः, पर्यायाथिकेषु च भावस्यैवाऽभ्युपगमः । क्षमाश्रमणमते तु-द्रव्यार्थिकत्वं नैगमादिचतुष्कस्य, पर्यायार्थिकत्वं च शब्दनयानाम् । द्रव्याथिकानां चत्वारोऽपि निक्षेपा सम्मता इत्यप्यत्र विशेषः । ..