________________
२४२
सटीकजैनतर्कभाषायां यद्ययं नयसमुदयवादः तदा सिद्धान्तग्रन्थेऽप्ययं वादः सुप्रथितः स्यादिति चेदस्त्येव सर्वस्य वस्तुनो नामादिचतुष्टयात्मकत्वानुमतिर्विशेषावश्यके । तथा च तद्ग्रन्थः
"घटपटदिकं यत्किमपि वस्तु अस्ति लोके, तत् सर्वं प्रत्येकमेव निश्चितं चतुष्पर्यायम्, न पुनर्यथा नामादिनयाः प्राहुः-यथा केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वा । प्रयोगः-यत्र शब्दार्थबुद्धिपरिणामसद्भावः-तत् सर्वं चतुष्पर्यायम्-चतुष्पर्यायत्वाभावे शब्दादिपरिणामभावोऽपि न दृष्टः-यथा शशशृङ्गे, तस्मात् शब्दादिपरिणामसद्भावे सर्वचतुष्पर्यायत्वं निश्चितमिति भावः ।।
"इदमुक्तं भवति-अन्योन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा । अर्थस्याऽपि पृथुबुध्नोंदराद्याकारस्य नामादिचतुष्टयात्मकतयैव परिणामः समुपलब्धः । बुद्धेरपि तदाकारग्रहणरूपतया परिणतिः तदात्मन्येव वस्तुन्यवलोकिता। न चेदं दर्शनं भ्रान्तं-बाधकाभावात् । नाऽप्यदृष्टाशङ्कयाऽनिष्टकल्पना युक्तिमती-अतिप्रसङ्गात् । न हि दिनकरास्तमयोदयोपलब्धरात्रिन्दिवादिवस्तूनां बाधकसम्भावनयाऽन्यथात्वकल्पना सङ्गतिमावहति । न चेहाऽपि दर्शनादर्शने विहायाऽन्यद् निश्चायकं प्रमाणमुपलभामहे । तस्मादेकत्वपरिणत्यापन्नेनामादिभेदेष्वेव शब्दादिपरिणतिदर्शनात् सर्वं चतुष्पर्यायं वस्त्विति सिद्धम् ।"
निक्षेपाणां नयैः सह संयोजना निरूपितानां निक्षेपाणां मध्ये को निक्षेपः कस्य नयस्याऽभ्युपगमविषय इत्याशङ्कानिवृत्तये निक्षेपाणां नयैः सह संयोजनमधिकरोति
अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाऽभिमतम्, पर्यायास्तिकनयस्य च भाव एव ।
तत्र=नामादिनिक्षेपाणां नयैः सह संयोजने । नामादित्रयमित्युक्त्या भावस्य व्यवच्छेदः । द्रव्यास्तिकनयस्यैवेत्येवकारेण पर्यायास्तिकस्य व्यवच्छेदः । एतावता पर्यायास्तिकस्यैव भाव एवाऽभिमत इति लब्धेऽपि स्पष्टप्रतिपत्तये आह-पर्यायास्तिकेति । लिङ्गविपरिणामेन अभिमत इति सम्बध्यते ।
नयनिरूपणे 'तत्र द्रव्यार्थिकाः त्रिधा-नैगमसङ्ग्रहव्यवहारभेदा'दित्युक्तम् । इदानीं सिद्धसेनसूरिमतानुसरणं तत्सम्मतनयनिक्षेपसंयोजनप्रतिपादनं विधेयमित्याशयेनाऽऽह
'तत्र नामादित्रयम्'-अत्र रत्नप्रभायामुद्धृता 'दव्वट्ठिय०' 'मूलणिभेण' 'नामं ठवणा' इति सम्मतिगाथाः तट्टीका च सन्ति ।