________________
निक्षेपचतुष्टयव्यवस्थापनम्
२४१ तोत्तरतत्तद्वर्णत्वलक्षणानुपूर्वीस्वरूपः शब्दे संस्थानविशेषः, घटदौ च कम्बुग्रीवाद्यवयवसन्निवेशलक्षणसंस्थानविशेष इत्येवमाकारस्य सर्वत्राऽनुभूयमानस्याऽपलपितुमशक्यत्वादित्याहनीलाकारेति ।
सर्वस्य वस्तुनो द्रव्यात्मकत्वं व्यवस्थापयति
द्रव्यात्मकं च सर्वम्-उत्फणविफणकुण्डलिताकारसमन्वितसर्पवद् विकाररहितस्याऽऽविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात् ।
अनेकावस्थानुगामित्वरूपं द्रव्यत्वम् । तत्राऽनुगाम्यननुगामिनोर्मध्येऽनुगामिनो वस्तुनो वस्तुतो वस्तुत्वम्, अनुगामिरूपं चाऽन्ततः सत्स्वरूपं सर्वत्राऽनुभूयते एवेति तद्रूपस्य द्रव्यस्य नाऽपलापसम्भव इति दृष्टान्तोपदर्शनपुरस्सरमाह-उत्फणेति । उद्गता-प्रसारिता फणा यस्य स उत्फणः, विगता-सङ्कचिता फणा यस्य स विफणः, कुण्डलिताकारः कुण्डलस्वरूपतां गोलकरूपतां प्राप्तः कुण्डलित आकारो यस्य स कुण्डलिताकार इति त्रिभिरपि पर्यायैः समन्वितो यः सर्पः तद्वत् । उत्फणोऽपि सर्पः सर्प एव, एवं विफणः कुण्डलिताकारश्चेत्यवस्थाभेदेऽपि यथैक एव सर्पः सर्वदानुगतः तथा द्रव्यमपि ।
यथाहि तत्त्वत उत्फणविफणादयो न सर्पाः तत्त्वान्तरम्, तथा पर्याया अपि । द्रव्यमेव तत्तत्पर्यायात्मनाऽऽविर्भूतस्वभावं तत्तत्परिणामकं भवत् तत्तद्रूपेण व्यपदिश्यते । तत्तत्पर्यायतिरोभावे स्वस्वरूपव्यवस्थितं द्रव्यमिति गीयते । न विकारो नामतः तत्त्वान्तरमित्याहविकाररहितस्येति । एतच्च द्रव्यार्थिकनयमवलम्ब्येति बोध्यम् ।
सर्वस्य वस्तुनो भावात्मकत्वं व्यवस्थापयति
भावात्मकं च सर्व-परापरकार्यक्षणसन्तानात्मकस्यैव तस्याऽनुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवादः ।
सन्तानात्मकस्यैवेत्येवकारोपादानमत्राऽपि पर्यायाथिकनयमाश्रित्य । तस्य सर्वस्य । उपसंहरति-इतीति । इति एवंदिशा । चतुष्टयात्मकं नामस्थापनाद्रव्यभावात्मकम् । निक्षेपचतुष्टयस्य सर्वव्यापकत्ववादोऽयं प्रमाणवाद एवेत्याह-इति नामादीति । नामादीत्यनन्तरं निक्षेपस्य वक्तव्यत्वे यत् तत्स्थाने नयेत्यभिधानं, तत् तत्तन्निक्षेपाभ्युपगन्ता नयोऽपि तत्तन्निक्षेपशब्दाभिलाप्य इति नामाभ्युपगन्ता नयो नामनयः, स्थापनाभ्युपगन्ता नयो स्थापनानयः, एवं द्रव्यनयो भावनय इति वेदनीयमिति ।
'चतुष्टयात्मकम्'-अत्र रत्नप्रभायामवतारितो 'घटपटादिक मिति भाष्यपाठ एव समस्ति । विशेषा० बृ० गा० ७३ ।