________________
२४०
सटीकजैनतर्कभाषायां
इति । भावस्य तु साक्षादेव स्वस्वरूपत्वेन वस्तुत्वमिति नामादिभ्यः प्रतिविशेष इत्यावेदयितुं कार्यापन्नस्य च स्वस्येत्यत्र स्वपदोपादानम् ।
नामादीनां वस्तुना सह धर्मधर्मभावे सिद्धे सत्येव तदाक्षिप्तसम्बन्धविशेषबलाद् वस्तुत्वसिद्धिरिति धर्मधर्मभावमुपपादयति
यदि च घटनाम घटधर्मों न भवेत् तदा ततः तत्सम्प्रत्ययो न स्यात्-तस्य स्वापृथग्भूतसम्बन्धनिमित्तकत्वादिति सर्वं नामात्मकमेष्टव्यम् ।
तत: घटनामतः, तत्सम्प्रत्ययो घटज्ञानम् । तस्य-घटनामतो घटसम्प्रत्ययस्य । स्वापृथग्भूतेति । घटनामघटरूपार्थाभिन्न-वाच्यवाचकभावलक्षणसम्बन्धजन्यत्वादित्यर्थः । इति एतस्मात् कारणात् ।
सर्वं वस्तु साकारमित्याकारलक्षणस्थापनया सह धर्मर्मिभावादभिन्नत्वमित्युपदर्शयति
साकारं च सर्व-मतिशब्दघटादीनामाकारवत्त्वात्, नीलाकारसंस्थानविशेषादीनामाकाराणामनुभवसिद्धत्वात् ।
मतिर्हि 'अयं घटोऽयं पट' इत्यादिरूपेणैव व्यवहारवीथीमवतरतीति घटाद्याकारवत्त्वं तस्याः, घटादिशब्दश्च घकारोत्तरटकारोत्तरत्वलक्षणानुपूर्वीस्वरूपाकारसमन्वित एवाऽऽभासते इति साकारः, घटादिरपि पृथुबुध्नाद्याकारवानेवाऽनुभूयते इति साकार इत्येवं सर्वस्य साकारत्वमवसेयमित्याह-मतीति । नीलाकारः, पीताकार इत्येवं मतावाकारानुभूतिः, तत्तद्वर्णाव्यवहि
'यदि च घटनाम'-"अयमभिप्राय:-वस्तुनः स्वरूपं नाम, तत्प्रत्ययहेतुत्वात् स्वधर्मवत्, इह यद् यस्य प्रत्ययहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, यच्च यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च घटभिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य धर्मः, सिद्धश्च हेतुरावयोः, घटशब्दात् पयदिव्यवच्छेदेन घट इति प्रतिपत्त्यनुभूतेः।"-विशेषा० बृ० गा० ६१ ।
'साकारं च सर्व'-"मतिस्तावत् ज्ञेयाकारग्रहणपरिणतत्वात् आकारवती, तदनाकारवत्त्वे तु नीलस्येदं संवेदनं न पीतादेः इति नैयत्यं न स्याद् नियामकाभावात् । नीलाद्याकारो हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणी मतिः न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते विशेषाभावात् ? तस्मादाकारवत्येव मतिरभ्युपगन्तव्या । शब्दोऽपि पौद्गलिकत्वादाकारवानेव । घटदिकं वस्तु आकारवत्त्वेन प्रत्यक्षसिद्धमेव । तस्मात् यदस्ति तत् सर्वमाकारमयमेव । यत्त्वनाकारं तन्नास्त्येव वन्ध्यापुत्रादिरूपत्वात् तस्य ।"-विशेषा बृ० गा० ६४ ।