________________
निक्षेपचतुष्टयव्यवस्थापनम्
२३९ नन्वेवं नामादीनां सर्वेषां वस्तुपर्यायत्वेन भावत्वानतिक्रमे भावाङ्गत्वे च किमिति दैवाद् नगरसमीपं समुपागतवति भावजिनेन्द्रे महनीयचरितानामपि लोके पूजाधतिशयाद्याकलितानां राज्ञां सामात्यानां सपरिच्छदानां ससामन्तानामहमहमिकया भक्तिभरनिर्भरण समहोत्सवं नमनादिक्रियाविधानार्थं झटित्येव तत्समीपमुपसर्पणम्, न तु जिनादिनाम्नि श्रुते, जिनादिप्रतिबिम्बे स्वप्रासादसमीपवर्तिप्रासादव्यवस्थिते, द्रव्यजिने वा मुनिप्रकाण्डे वा नगरान्तःप्रविष्टे इत्यतो वक्तव्यः कश्चित् प्रतिविशेषो नामादित्रयसद्भावे इत्यत आह
केवलं नामादित्रयं भावोल्लासेऽनैकान्तिकमात्यन्तिकं च कारणमिति ऐकान्तिकात्यन्तिकस्य भावस्याऽभ्यर्हितत्वमनुमन्यन्ते प्रवचनवृद्धाः ।
केवलमिति । एतावन्मात्र, पदानन्तरमेवा(यद् अनन्तरमेवा?)ऽभिधीयते तदित्यर्थः । अनैकान्तिकमिति । एकान्तो नियमः, तद्वदैकान्तिकम्, न ऐकान्तिकमनैकान्तिकम् । नामादित्रयान्यतमसद्भावे कदाचिद् भवति भावोल्लासः, कदाचिद् न भवत्यपीति व्यभिचारीत्यर्थः । अनात्यन्तिकमिति । अत्यन्तम् अतिशयेनाऽतिप्रकृष्टमन्यातिशायिकार्यं विदधातीत्यात्यन्तिकम्, तथा यद् न भवति तद् अनात्यन्तिकम् ।
भावजिनाद् यादृशः प्रकृष्टतमो भावोल्लासो भवति, न तादृशो भावोल्लासो जिननामादित इति नामादिकं भावोल्लासेऽनैकान्तिकमनात्यन्तिकं च कारणम् । भावजिनस्तु भावोल्लासे ऐकान्तिकमात्यन्तिकं च कारणमतः तेभ्योऽभ्यर्हितः स इत्येवं प्रतिविशेष इत्याह-ऐकान्तकेति। नैतत् स्वानुभवसंवेद्यमेव, विशेषावश्यककारादयः पूज्या अप्येनमर्थमित्थमुशन्तीत्याहअनुमन्यन्ते इति ।
भावातिरिक्तगतानामपि नामादीनामुक्तदिशाऽस्त्येवोपयोगो वस्तुपर्यायत्वाद् भावाङ्गत्वाच्चेत्येतावताऽभिहितम् । अथैकवस्तुगतानां नामादीनां त्रयाणां भावाविनाभूतत्वाद् वस्तुत्वमुपपादयति
एतच्च भिन्नवस्तुगतनामाद्यपेक्षयोक्तम्, अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम्- -..-.
नामस्थापनाद्रव्याणामनुक्रमेण भावाविनाभूतत्वं भावयति
सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात्, स्वाकारस्य स्थापनारूपत्वात्, कारणतायाश्च द्रव्यरूपत्वात्, कार्यापन्नस्य च स्वस्य भावरूपत्वात् ।
नामादिषु स्वसम्बन्धित्वेन स्वाभिन्नत्वं-सर्वस्य सम्बन्धस्य कथञ्चित्तादात्म्यलक्षणाविष्वग्भावनियतत्वाद्, यस्य कस्यचित् सम्बन्धस्य सत्त्वे कथञ्चित्तादात्म्यस्याऽवश्यं सद्भाव