________________
२३८
सटीकजैनतर्कभाषायां इन्द्रशब्दार्थो हीन्द्रवद् नामतदाकारतत्कारणचतुष्टयात्मको वस्त्वेवेति भावेन्द्रवद् नामादीनामपि वस्तुपर्यायत्वमविशिष्टमेव । उक्तचतुष्टयान्यतमस्य यत् कार्यं तद् इन्द्रशब्दार्थकार्य भवत्येवेति सामान्यत इन्द्रकार्यकारित्वं सर्वेषामविशिष्टमेव, यथाऽनन्तधर्मात्मके वस्तुनि प्रत्येकधर्मस्य यत् कार्यं तदपि वस्तुकार्यं भवत्येव, अन्यथा तदात्मकत्वमेव वस्तुनो न स्यादित्याशयेन समाधत्ते
. .. न, नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो भावत्वानतिक्रमात्, अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिभेदचतुष्टयपरामर्शनात् प्रकरणादिनैव विशेषपर्यवसानात् ।
'इन्द्रोऽत्र वर्तते, इन्द्रोऽस्ती'त्येवं नामादिरहितकेवलेन्द्रशब्दोच्चारणेऽविशेषेण नामेन्द्रादिचतुष्टयस्याऽप्यवबोधात्, देवानां परिगणनानामवसर इति प्रकरणपरिस्फूत्तौं भावेन्द्रस्य, गोपालदारकादिसम्मेलनादिप्रकरणे नामेन्द्रस्य, देवकुलादौ स्थापनेन्द्रस्य, 'अयमेतत्तपःप्रभावाद् धरणो भविष्यति, अयमेतदुपासनयन्द्रपदमलङ्करिष्यती'त्यादि तपोमाहात्म्यवर्णनप्रसङ्गे द्रव्येन्द्रस्य च विशेषतोऽवबोधात्, विशेषावगमकप्रकरणाद्यभावे च विशेषत एकैकमात्रप्रतीतेरभावादित्याह-अविशिष्ट इति । परामर्शनाद-निश्चयात्मकग्रहणं परामर्शनम्, तद्भावाद् । परामर्शदर्शनादिति पाठस्तु समीचीनः । तथा सत्युक्तपरामर्शस्याऽनुभूयमानत्वलाभेन तथाविधपरामर्शो न भवतीति वक्तुमशक्यम्-अनुभूयमानस्याऽपलापासम्भवात् । तथा सति ततो भावेन्द्रादिविशेषप्रतिपत्ति न भवेदेवेत्यत आह-प्रकरणादिनैवेति ।
प्रकारान्तरेण नामादीनां सफलत्वमुपदर्शयति
भावाङ्गत्वेनैव वा नामादीनामुपयोगः-जिननाम-जिनस्थापना-परिनिर्वृतमुनिदेहदर्शनाद् भावोल्लासानुभवात् ।
वा-अथवा । भावाङ्गत्वमेवैकं कथमित्यपेक्षायामाह-जिनेति । यत्र कुत्रचित् पुरुषादौ सङ्केतितं जिननाम श्रुत्वाऽपि रागद्वेषाद्यान्तराशेषशत्रून् हतवति भावजिने स्मृतिमारूढे सति भावोल्लासस्य भक्त्युद्रेकस्य श्रोतृगतस्याऽनुभवाद्-अनुभूयमानत्वात्; एवं सर्वथा रागद्वेषादिराहित्यानुमापकलिङ्गविशेषालिङ्गितां जिनप्रतिमां साक्षात् पुरतः पश्यतो भव्यस्य 'अहमप्येवम्भूतः कदा स्या'मित्येवमाशंसालक्षणतद्गुणैकतानतास्वभावात्मकभावोल्लासाविर्भावस्याऽनुभूयमानत्वात्, परिनिर्वृतस्य निर्वाणं प्राप्तस्य कालधर्ममुपागतस्य वा मुनेः सम्यक्चारित्रवत: साधोत्र्यिादिभवैरेव जिनभावमासादयिष्यतो द्रव्यजिनस्य देहदर्शनाद् द्रष्टव्यस्य भावविशेषोल्लासस्याऽनुभूयमानत्वाच्च नामादित्रयाणां भावाङ्गत्वेनोपयोग एव, न निरुपयोगत्वमित्यर्थः ।