________________
२३७
निक्षेपचतुष्टयव्यवस्थापनम् बिम्बपूजनफलं तु
"अभ्यर्चनादर्हतां, मनःप्रसादस्ततः समाधिश्च ।
तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥" इति तत्त्वार्थाधिगमभाष्यकारिकायां (का.१/८) परम्परया मुक्तिरुपदिष्टा । न तथेति । दर्शिताकारादिकं नामेन्द्रे द्रव्येन्द्रे च न संवीक्ष्यते इत्यर्थः । ताभ्यां नामेन्द्रद्रव्येन्द्राभ्याम्, तस्य स्थापनेन्द्रस्य भेदः ।।
द्रव्यमपि भावपरिणामिकारणत्वाद् नामस्थापनाभ्यां भिद्यते । यथा ह्यनुपयुक्तो वक्ता द्रव्यम्, उपयुक्तत्वकाले उपयोगलक्षणस्य भावस्य कारणं भवति, यथा वा साधुजीवो द्रव्येन्द्रः सद्भावेन्द्ररूपायाः परिणतेः, न तथा नामस्थापनेन्द्राविति ।
द्रव्यं-नामस्थापनाभ्यां भिद्यते-भावपरिणामिकारणत्वादित्यनुमानप्रयोगोऽत्र स्पष्टं प्रतिभासते । उक्तहेतोः द्रव्ये सत्त्वं नामस्थापनयोरसत्त्वमिति भवति भेदनियतत्वमित्युपपादयति-यथेति । पूर्वं योऽनुपयुक्तो वक्ता स एवोत्तरकाले उपयुक्तः तादृशेनोपयोगात्मना परिणतो भवतीत्युपयोगपरिणामलक्षणभावकारणत्वाद् द्रव्यमिति । एवमिदानी यो जीवः साधुपर्यायमनुभवति स प्रेत्य देवेन्द्रो भविष्यति तत उत्तरकालभावि-सद्भावदेवेन्द्रपरिणते: कारणत्वाद् द्रव्येन्द्र इत्यर्थः । न तथेति । नामेन्द्रः स्थापनेन्द्रश्च न सद्भावेन्द्ररूपपरिणते: कारणमिति न तयोर्भावपरिणामकारणत्वमिति वैधाद् द्रव्यं नामस्थापनाभ्यां भिन्नमित्यर्थः ।
स्थापनाद्रव्यगतौ विभिन्नौ यौ धौं अनन्तरमुपदर्शितौ, तच्छून्यत्वरूपधर्मवत्त्वाद् नामाऽपि स्थापनाद्रव्याभ्यां भिद्यते इत्याह
नामाऽपि स्थापनाद्रव्याभ्यामुक्तवैधादेव भिद्यते इति । दृष्टान्तावष्टम्भेन नामस्थापनादीनां भेदाभेदावुपदर्शयति
दुग्धतक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिना भेदवद् नामादीनां केनचिद्रूपेणाऽभेदेऽपि रूपान्तरेण भेद इति स्थितम् ।
तथा च स्याद्वादोऽत्रापि पदमादधातीति हृदयम् ।
भावेन्द्रस्य स्वर्गपालनादिकं यत् कार्य तद् नामेन्द्रो गोपालदारकादिः, स्थापनेन्द्र इन्द्रप्रतिमादिः, द्रव्येन्द्रः साधुजीवादिर्वा न कर्तुं समर्थ इति प्रतिनियतार्थक्रियाकारित्वाद् भावेन्द्र एव वस्तु, न तु नामेन्द्रादिरिति तदर्थशून्यैर्नामादिनिक्षेपैरलमिति शङ्कते... ननु भाव एव वस्तु, किं तदर्थशून्यैर्नामादिभिरिति चेत्,
तदर्थशून्यैः=भावार्थरहितैः ।